अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद् ब्राह्मणः ।
स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्तत्रयेणावलोकितः । ततस्ते धूर्ताःयद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मतिप्रकर्षो भवतीति समालोच्य, वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः ।
तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोभिहितःभो ब्राह्मण !
किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते ।
विप्रेणोक्तंनायं श्वा, किन्तु यज्ञच्छागः ।
अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् ।
तद् आकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः ।
यतः

Ref:https://sa.wikisource.org/s/1c4

Hits: 403
X

Right Click

No right click