आसीत् कल्याणकटकवास्तव्यो भैरवो नाम व्याधः ।
स चैकदा मांसलुब्धो धनुरादाय मृगम् अन्विष्यन् विन्ध्याटवीमध्यं गतः ।
तत्र तेन मृग एको व्यापादितः ।
ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः ।
ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः ।
शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात ।अथ तयोः पादास्फालनेन एकः सर्पोपि मृतः ।
अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृगव्याधसर्पशूकरान् अपश्यत् ।
आलोक्याचिन्तयच् चहो भाग्यम् !
अद्य महद् भोज्यं मे समुपस्थितम् ।
मासम् एकं नरो याति द्वौ मासौ मृगशूकरौ ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥

ततः प्रथमबुभुक्षायाम् इदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् ।

ततश्छिन्ने स्नायुबन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः ।

Ref:https://sa.wikisource.org/s/1c4

Hits: 435
X

Right Click

No right click