अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः ।
पश्चात् तत उत्थातुम् असमर्थः, प्रातरात्मानं मृतवत् सन्दर्श्य स्थितः ।
अथ नीलीभाण्डस्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः ।
ततोसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्हम् इदानीम् उत्तमवर्णः ।
तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तंहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः ।
पश्यन्तु मम वर्णम् ।
तद् अद्यारभ्यास्मद्आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः ।
शृगालाश्च तं विशिष्टवर्णम् अवलोक्य, साष्टाङ्गपातं प्रणम्योचुःयथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्यवासिष्व् आधिपत्यं तस्य बभूव ।
ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम् ।
ततस्तेन व्याघ्रसिंहादीन् उत्तमपरिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः ।
ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्धशृगालेनैतत् प्रतिज्ञातंमा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः ।
स्वसमीपात् परिभूतास्तद् यथायं नश्यति तथा विधेयम् ।
यतोमी व्याघ्रादयो वर्णमात्रविप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते ।
तद् यथायं परिचीयते तथा कुरुत ।
तत्र चैवम् अनुष्ठेयम्, यथा वदामिसर्वे सन्ध्यासमये तत्सन्निधाने महारावम् एकदैव करिष्यथ । ततस्तं शब्दम् आकर्ण्य जातिस्वभावात् तेनापि शब्दः कर्तव्यः । यतः

यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥

ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस्तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्

Ref:https://sa.wikisource.org/s/1c4

Hits: 541
X

Right Click

No right click