नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ५ ।

अन्यत् सूत्रम् ।

*आदिमकोष्ठपुर:सर-
चरणे यमलद्वयोद्भवैरङ्कै: ।।१३।।

लग्ने जिनमितभेदा-
स्तावन्तस्ते च पृथगन्यै: ।

उदाहरणम् ।

एकाद्येकोत्तरके
षोडशगृहकेऽपि कति चतुर्भद्रे ।
भेदा वद यदि गणिते
गणकवरास्त्यत्र गर्वस्ते ।।४।।
----
* तिर्यक्पङ्क्तिगता: कोष्ठवरणा: । षोडशकोष्ठेषु १,२,३,४, एता: संख्या: ।
प्रथमश्चरणस्तत्र यमलद्वयम्, २,४। ५,६,७,८, एता: संख्या: द्वितीयश्चरणस्तत्र यमलद्वयम् ६,८ । एवमन्यौ चरणौ भवत: ।
एवमत्र चरणयमलोद्भवैरङ्कै: कोष्ठैक्यवशेन, कोष्ठान्तरवशेन, क्रमेणोत्क्रमेण च जिनमिताश्चतुर्विंशति भेदा भवन्ति ।
एवं चतुर्भिर्यमलै: प्रत्येकचतुर्विंशतिभेदेषु षोडश षोडश भेदा भवन्ति ।
अत: सर्वभेदा: = २४x १६=३८४ । उदाहरणेन सर्वं स्फुटम् ।

Hits: 400
X

Right Click

No right click