नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -८

(१) अन्तिमेनान्तिमाङ्केन गुणितं पुर: अग्रे पुनरन्तिमगुणितं तत्पुर: पुनस्तद्वत् स्थानाधिकं लिखेत् ।

(२) यथाचार्योक्तोदाहरणे अन्तिमाङ्क:=३, स्थानानि =३।
स्थानाहतान्तिमाङ्क: = ३ष३=९ अयं सैक:=१० स्थानसंख्योनित:= १०-३=७ जातं स्थानम्। अन्तिमाङ्कमितचयपङ्क्ति:=१।२।३
अस्या आदिमाङ्क रूपं विहाय परौ २।३ अन्तिमाङ्कहतौ २ष३=६, ३ष३=९ जातौ पङ्क्तौ
तत्पुरोऽङ्कौ एवं पङ्क्ति:=१।२।३।६।९
पुनरन्तिमाङ्कमितचयपङ्क्ति:=३।६।९,
अन्तादिमाङ्क* त्रयं विहाय परौ ६।९ अङ्कौ अन्तिम ३ हतौ १८।२७ तत्पुरो निवेशितौ जाता पङ्क्ति:=१।२।३।६।९।१८।२७। स्थानसंख्यामिता अत्र अङ्का: ।
---
आभ्यासिक्यां पङ्क्तौ
प्रजायते स्थानमानमिह ।
अन्तिममितचयपङ्क्ति-
स्तदादिमाङ्क* विहायचाऽन्येऽङ्का:।।१९।।

अन्तिमहता पुरस्ताद्
विन्यस्य पुन:पुनश्चैवम् ।
तानेवान्तिमनिघ्नान्
यावत् स्थानाङ्कसम्मितिर्भवति ।।२०।।

पङ्क्तिरियं गणकाग्र्यै:
समीरिताऽऽभ्यासिकी पूर्वे:।
---
१०-३=७ जातं स्थानमानम् । अन्तिमाङ्कमितचयपङ्क्ति:=१।२।३
अस्या आदिमाङ्कं रूपं विहाय परौ २।३ अन्तिमाङ्कहतौ २x३ =६,
३x३=९, जातौ पङ्क्तौ तत्पुरोऽङ्कौ एवं पङ्क्ति:= १।२।३।६।९
पुनरन्तिमाङ्क्मितचयपङ्क्ति:=३।६।९, अन्तादिमाङ्कं त्रयं विहाय परौ ६।९ अङ्कौ अन्तिम ३ हतौ १८।२७ तत्परो निवेशितौ जाता पङ्क्ति: = १।२।३।६।९।१८।२७। स्थानसंख्यामिता अत्र अङ्का: ।

Hits: 399
X

Right Click

No right click