नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -२

संख्या प्रत्यय आवृत्ति-
स्ततश्र्चोर्ध्वाङ्कसंयुति: ।
सर्वयोगाङ्कपातश्र्च
प्रस्तारप्रत्यस्तत: ।।६।।

नष्टौद्दिष्टैस्तथा स्थान-
भेदसंख्याविचारणम्।
अन्तिमाद्यङ्कवृद्ध्यङ्क-
योगभेदप्रसाधनम् ।।७।।

निरेककैककद्व येक-
त्र्येकादीनां च साधनम् ।
एकान्तद्व्यन्तकत्र्यन्त-
चतुरन्तादिसाधनम् ।।८।।

इत्यादिप्रत्यया येऽपि
प्रत्येकं ते त्वनेकधा ।
स्वस्वोपयोगिसूत्रैस्तान्
वक्ष्ये स्फुटतरं यथा ।।९।।

इति प्रत्यय: ।
तत्रादौ चयपङ्क्तिव्यन्तरपङ्क्तिवैश्लेषिणीसार्पिणिकाजलौकिकापङ्क्तिषु सूत्रम्।
एकाद्येकचयाङ्कै:
स्थानान्तं प्रचयसंज्ञिका पंक्त्ति: ।
---
अन्त्याङ्कं त्यक्त्वा मूलक्रमे यावत्स्थानेषु अङ्का: समास्तावत्सार्पिण्यां पङ्क्तावुपान्तिमाङ्कानां योग: कारय:। एवं जलौकापंक्त्ति:

Hits: 206
X

Right Click

No right click