नारायण पण्डित - गणितकौमुदी -पान २८६ 
अङ्क-पाशम् -१
अङ्कपाश सूत्राणि प्रारम्भ:

अथाऽङ्कपाशे सूत्राणि।
अथ गणकानन्दकरं
संक्षेपादङ्कपाशकं वक्ष्ये ।
निपपतन्ति यत्र मत्सरवन्तो
दुष्टा: कुगणका ये ।।१।।

भरते छन्दश्शास्त्रे वैद्ये
माल्यक्रियासु गणिते च ।
शिल्पेऽप्यस्त्युपयोगोऽ-
तस्तस्य ज्ञानमङ्कपाशेन ।।२।।

चयपङ्क्तिश्च व्यन्तर-
पङ्क्तिर्जलौकिकाख्या
ततश्च सामासिका पङ्क्ति: ।।३।।

पातालाख्या पङ्क्ति:
पङ्क्तिरगुणकोत्तराभिधाना च ।
अभ्यासिका च पङ्क्ति:
सूचीपङ्क्तिश्च खण्डसूची च ।।४।।

यौगिक संज्ञा पंङ्क्ति:
खण्डितमेरूस्तत: पताका च ।
मेरूस्तिमिमेरूरथो
लड्डुक इत्यादिकरणानि ।।५।।

Hits: 182
X

Right Click

No right click