नारायण पण्डित - गणितकौमुदी 

भद्रगणितम् - ३ ।


चतुर्भद्रकरणसू्रम् ।


चतुरङ्गतुरगगत्या द्वौ द्वौ श्रेढीसमुद्भवावङ्कौ।
न्यस्य क्रमोत्क्रमेण च
कोष्ठैक्यैकान्तरेण च तौ ।।१०।।

सव्याससव्यतुरङ्गम- 

रीत्याकोष्ठान् प्रपूरयेदङ्कै:।

 

Explanation-

चतुरङ्गतुरगगत्या - Like the movement of horse in chess
द्वौ द्वौ श्रेढीसमुद्भवावङ्कौ। Choose pairs of numbers 
कोष्ठैक्यैकान्तरेण in two adjacent cells and at an interval of one cell

सव्याससव्यतुरङ्गम- by the method of the horse moving to the left and right
रीत्याकोष्ठान् प्रपूरयेदङ्कै:। fill all cells
-----
चतुरङ्गे यथा तुरगगतिरश्वगतिस्तथा पूर्वागतौ द्वौ द्वौ श्रेढीभवावङ्कौ विलेख्यौ । 
क्रमेण वा उत्क्रमेण यथा एकानन्तरं द्वयस्थापनं क्रमं त्रयस्थापनं चोत्क्रमम्।

 


तं क्रमोतक्रमाङ्कं च स्वोर्ध्वाधरपङ्क्तौ वा तिर्यक् पंक्तावैकान्तरकोकोष्ठे  संलग्नकोष्ठे वा 
कर्णकोष्ठे न्यसेत् पुनस्तस्मादश्वगत्या तत्परमङ्कं सव्यासव्यक्रमेण । 


क्रमेण अर्थात् स्वस्थानादग्रिमकोष्ठक्रमेण,उत्क्रमेण स्वस्थानात्पृष्ठकोष्ठक्रमेण न्यसेत् । 
एवं सर्वान् कोष्ठानङ्कैस्तथा पूरयेतद्यथा लिखिताङ्कोपरि पुनर्न्यस्ताङ्को न पतेत् । 
उदाहरणन्यासेन स्फुटम् ।

Hits: 237
X

Right Click

No right click