उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः । । १०.१क । ।
पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासां अर्धेष्टकामात्राणि पक्षयोर्भवन्ति । । १०.१ख । ।
पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च । । १०.१ग । ।
पुच्छे प्रादेशं उपधाय सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । १०.२ । ।
पञ्चदशभागीयाभिः सङ्ख्यां पूरयेथ् । । १०.३ । ।
अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः । । १०.४क । ।
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छं । यथा पुच्छं तथा पक्षौ विपरीता अप्यये । । १०.४ख । ।
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । १०.५ । ।
पञ्चदशभागीयाबिः सङ्ख्यां पूरयेथ् । । १०.६क । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १०.६ख । ।
पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य । । १०.७ । ।
जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः । । १०.८क । ।
नाभिदघ्नीं द्विषाहस्रं द्वितीयं आस्यदघ्नीं त्रिषाहस्रं तृतीयं उत्तरं उत्तरं ज्यायाम्सं । । १०.८ख । ।
महान्तं बृहन्तं अपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते । । १०.८ग । ।
द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यं इष्टकापरिमाणं । । १०.९ । ।
विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ । । १०.१० । ।

Ref: https://sa.wikisource.org/s/809

Hits: 210
X

Right Click

No right click