उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति । । ९.१क । ।
स पुरुषश्चतुरश्रः । । ९.१ख । ।
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते । । ९.२क । ।
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषं उत्तरे । । ९.२ख । ।
अरत्निना दक्षिणतो दक्षिणं इत्युक्तं । । ९.२ग । ।
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरं । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी । । ९.३क । ।
पूर्ववदुत्तरं अंसं । । ९.३ख । ।
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते । । ९.४ । ।
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेथ् । । ९.५ । ।
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेथ् । । ९.६क । ।
तासां एवैकतोऽध्यर्धास्तद्द्वितीयं । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयं । । ९.६ख । ।
सर्वतः प्रादेशस्तच्चतुर्थं । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमं । । ९.६ग । ।
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेथ् । । ९.७क । ।
अर्धेन नाकसदां पञ्चचूडानां च । । ९.७ख । ।
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य । । ९.८ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 237
X

Right Click

No right click