भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा । । ८.१ । ।
यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते । । ८.२क । ।
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषं उत्तरे । । ८.२ख । ।
अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवं उत्तरत उत्तरं । । ८.२ग । ।
प्रादेशेन वितस्त्या वा पश्चात्पुच्छं । । ८.२घ । ।
एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवं एवोद्यन्त्यैकशतविधाथ् । । ८.३ । ।
तदु ह वै सप्तविधं एव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वं एकोत्तरानिति विज्ञायते । । ८.४ । ।
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च । । ८.५ । ।
अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषं आवेशयेथ् । । ८.६क । ।
आकृतिविकारस्याश्रुतत्वाथ् । । ८.६ख । ।
पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते । । ८.७ । ।
यावान्यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयं । । ८.८ । ।
अपरेण यूपावटदेशं अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्ताथ् । । ८.९ । ।
उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्ताथ् । । ८.१० । ।

Ref: https://sa.wikisource.org/s/809

Hits: 230
X

Right Click

No right click