नवारत्नि तिर्यक्सप्तविंशतिरुदगायतं इति सदसो विज्ञायते । । ७.१ । ।
अष्ठादशेत्येकेषां । । ७.२ । ।
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेथ् । । ७.३ । ।
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्याथ् । । ७.४ । ।
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते । । ७.५ । ।
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषां । । ७.६ । ।
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेथ् । । ७.७ । ।
ता एकविंशतिर्भवन्ति । । ७.८ । ।
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः । । ७.९ । ।
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेथ् । । ७.१०क । ।
तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधं एकैकं प्रधिकं विभजेथ् । । ७.१०ख । ।
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेथ् । । ७.११क । ।
मध्यानीतरस्मिन्प्रस्तारे । । ७.११ख । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । ७.११ग । ।
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते । । ७.१२ । ।
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषां । । ७.१३ । ।
मृदो देहान्कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानं उपपध्याथ् । । ७.१४ । ।
यथासङ्ख्यं इतरा व्यवलिख्य यथायोगं उपदध्याथ् । । ७.१५ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 216
X

Right Click

No right click