प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति । । ६.१ । ।
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वाथ् । । ६.२क । ।
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति । । ६.२ख । ।
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते । । ६.३क । ।
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्ताथ् । । ६.३ख । ।
यावता वा बाह्ये छिद्रे । । ६.३ग । ।
तदेकरज्ज्वोक्तं । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेथ् । । ६.४ । ।
अथाप्युदाहरन्ति । । ६.५क । ।
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतं । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणं । । ६.५ख । ।
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यां अध्यर्धेनेति श्रोण्यंसान्निर्हरेथ् । । ६.६ । ।
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् । । ६.७ । ।
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् । । ६.८ । ।
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते । । ६.९ । ।
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वाथ् । । ६.१० । ।
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्याथ् । । ६.११ । ।

 

Ref: https://sa.wikisource.org/s/809

Hits: 204
X

Right Click

No right click