त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति स्ॐइक्या वेदेर्विज्ञायते । । ५.१ । ।
षट्त्रिंशिकायां अष्टादशोपसमस्य अपरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवं उत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवं उत्तरतस्तावंसौ । । ५.२क । ।
तदेकरज्ज्वा विहरणं । । ५.२ख । ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस्त्रिरभ्यस्ताभिरंसौ । चतुरभ्यस्ताभिःश्रोणी । । ५.३ । ।
द्वादशिकापञ्चिकयोस्त्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी । । ५.४ । ।
पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी । । ५.५क । ।
द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिरंसौ । । ५.५ख । ।
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति । । ५.६ । ।
अष्टविंशत्योनं पदसहस्रं महावेदिः । । ५.७क । ।
दक्षिणस्मादंसाद्द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत । । ५.७ख । ।
स्ॐइक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर्विज्ञायते । । ५.८क । ।
प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा । । ५.८ख । ।
अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया । । ५.८ग । ।
त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः । । ५.९ । ।
द्विस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते । । ५.१० । ।

Ref: https://sa.wikisource.org/s/809

Hits: 220
X

Right Click

No right click