आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते । । ४.१क । ।
अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निं आदधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः । । ४.१ख । ।
चतुर्विंशत्यां अपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरं आधेय इति सर्वेषां अविशेषेण श्रूयते । । ४.२ । ।
दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते । । ४.३ । ।
गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागं आगन्तुं उपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनं । श्रुतिसामर्थ्याथ् । । ४.४ । ।
यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवं इव हि योषेति दार्शिक्या वेदेर्विज्ञायते । । ४.५ । ।
अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुं आयम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणं अंसं आलिखेत् । एवं उत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्याथ् । । ४.६ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 190
X

Right Click

No right click