अथापरोयोगः । । २.१क । ।
पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धेऽर्धे तद्विशेषं अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमङ्कं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिं आयच्छेत् । एवं उत्तरौ श्रोण्यंसौ । । २.१ख । ।
प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी । । २.२ । ।
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा । । २.३ । ।
तुल्ययोश्चतुरश्रयोरुक्तः समासः । नानाप्रमाणयोश्चतुरश्रयोः समासः । । २.४क । ।
ह्रसीयसः करण्या वर्षीयसो वृद्ध्रं उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति । तदुक्तं । । २.४ख । ।
चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेथ् । । २.५क । ।
वृर्धस्य पार्श्वमानीं अक्ष्णयेतरत्पार्श्वं उपसंहरेथ् । । २.५ख । ।
सा यत्र निपतेत्तदपच्छिन्द्याथ् । । २.५ग । ।
छिन्नया निरस्तं । । २.५घ । ।
उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति । । २.६क । ।
तिर्यङ्मानी पुरुषं शेषस्त्रीन् । । २.६ग । ।
तदुक्तं । । २.६घ । ।
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन्तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्याथ् । । २.७क । ।
खण्डं आगन्तुना संपुरयेथ् । । २.७ख । ।
तस्य निर्हार उक्तः । । २.७ग । ।

Ref: https://sa.wikisource.org/s/809

Hits: 213
X

Right Click

No right click