विहारयोगान्व्याख्यास्यामः । । १.१ । ।
यावदायामं प्रमाणं । । १.२क । ।
तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति । । १.२ख । ।
पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति । । १.२ग । ।
एवमुत्तरतो विपर्यस्येतरतः स समाधिः । । १.२घ । ।
तन्निमित्तो निर्ह्रासो विवृद्धिर्वा । । १.२च । ।
आयामं वाभ्यस्यागन्तुचतुर्थं आयामश्चाक्ष्णया रज्जुस्तिर्यङ्भानीशेषः । व्याख्यातं विहरणं । । १.३क । ।
दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भुते कुरुतस्तदुभयं करोति । । १.४क । ।
ताभिर्ज्ञेयाभिरुक्तं विहरणं । । १.४ख । ।
चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी । । १.५ । ।
प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः । । १.६ । ।
अथापरं । । १.७क । ।
प्रमाणमात्रीं रज्जुं उभयतः पाशां करोति । । १.७ख । ।
मध्ये लक्षणं अर्धमध्यमयोश्च पृष्ठ्यायां रज्जुं आयम्य पाशयोर्लक्षणेष्विति शङ्कून्निहत्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिं आयच्छेत् । एवमुत्तरौ श्रोण्यंसौ । । १.७ग । ।

 

Ref:https://sa.wikisource.org/s/809

Hits: 208
X

Right Click

No right click