अरत्निश्र्चतुरस्त्रस्तु पूवस्याग्ने: खरो भवेत्
रथचक्राकृति: पश्र्चाच्चन्द्रार्ध इव दक्षिण: --२१

अग्निनां तु खर: कार्यो मेखलात्रयसंयुत:
द्वादशाङ्गुल उच्छ्राये विस्तारे चतुरङ्गुल: --२२

तन्तु: पुष्करनालस्य षड्गुण: परिवेष्टित:
वत्सतर्यास्त्रिहायण्या बालेन सदृशो भवेत् --२३

त्रयस्त्रिहायणीबाला: सर्षपार्धं प्रचक्षते
द्विगुणं सर्षपं विद्याद्यव: पञ्च तु सर्षपा: -- २४

अङ्गुलस्य प्रमाणं तु षड्यवा: पार्श्र्वसंस्थिता:
चतुर्विंशाङ्गुलोऽरत्निर्वितस्तिर्द्वादशाङ्गुला --२५

व्यामस्यात्र प्रमाणं तु चतुरदन्यूनं शतं भवेत्
पुरुषस्य प्रमाणं वै विंशतिस्तु शताधिका -- २६

हिरण्यशकलार्थे तु हिरण्यं यस्य नोच्यते
कृष्णलेनैव तद्व्याख्या यज्ञे सिध्यति य़ाज्ञिकी --२७

कृष्णलं त्रियवं मानं ताम्रायसमत: परम्
सुवर्णादर्धं च माषाणां सुवर्णाश्र्च त्रसप्तति: --२८

त्रीणि चैव सहस्राणि दद्याद्बहुसुवर्णके
भूय: स्थपतितो ज्ञात्वा संज्ञास्वन्यासु मानवित्
स्वर्णकारो यथाऽभ्यासात्तथा भूयो विवर्धते -- २९

हृसतेशोषपाकाभ्याम द्वात्रीशद्भागमिष्टका
तस्मादार्द्रप्रमाणम तु कुर्यान्मानाधिकम बुध: --३०

Hits: 222
X

Right Click

No right click