चतुरस्त्रमुद्गरं स्यात् षोडशाङ्गुलमायतम्
अविद्धं रमणीयंच दारुमध्याच्च निरमितम् --११

अजीर्णाऽग्रन्थिनी सूक्ष्मा समा श्लक्ष्णा त्वरोमशा
रज्जुरमानाधिका कार्या अध्वरे योगमिच्छता --१२

शानी वा बाल्वजी चैव वैणवी वा विधीयते
रज्जुस्तूभयत:पाशा त्रिवृता यज्ञकर्मणि --१३

रज्जुर्मुञ्जमयी कार्या शणैस्तु परिमिश्रिता
कात्यायनो वदत्येवमखण्डा कुशबल्बजै: --१४

नवके लक्षणं कुर्यात् त्रीणि कुर्यात् त्रिषु त्रिषु
उत्तमो नवक: पाश: सदसो मानमुच्यते --१५

पञ्चदशमथैकविंशतिकमपरं परस्त्रिकं च
द्वादशसु पाश उत्तम इति सोमे रज्जुमानमेतत् -- १६

पदस्याक्ष्णया तिरश्र्ची तयोरक्ष्णया भवेत्
सौत्रामण्यां विमातव्या वेदि: स्यात् सोमवत्तया --१७

नीहारेण घनैर्वापि ज्योतिषामभ्रदर्शने
अप्सु दीपं प्रगृहृीयाद्यावत्तमसि दर्शने --१८

प्रमानम च प्रमेयं च यच्चान्यद्वस्तुसंज्ञकम्
सर्वं तच्चास्त्रतो ज्ञात्वा यज्ञे सिध्यन्ति याज्ञिका: --१९

यथा न क्षीयते मानं यथा च न विवर्दते
यथा च रमते दृष्टिस्तथा योगं समाचरेत् --२०

Hits: 203
X

Right Click

No right click