यथाग्नि वेदीष्टकाप्रमाणं वर्द्धत इत्येतद्वक्ष्याम: --१

याकरणी चतुर्दशप्रक्रमान्सङ्क्षिपति त्रंश्र्च प्रक्रमसप्तमभागान् स एकशतविधे प्रक्रम: --२

द्वितीये वा सप्तसु प्रक्रमेषु प्रक्रममधाय तस्य सप्तमभागेन प्रक्रमार्थ: --३

प्रक्रमेण वा सप्तमभागेन प्रक्रमार्थ: --४

एवमैकशतविधात् --५

नान्त:पात्यगार्हपत्ययोर्वृद्धिरभवति तावदेव योनिर्भवति न वै जातं गर्भं योनिरनुवर्धत इति श्रुतेर्वृद्धेरत्यन्तं प्रतिषेध: --६

यावत्प्रमाणानि समचतुरश्राण्येकीकर्तुं चिकीर्षेदेकोनानि तानि भवन्ति तिरयाग्द्विगुणान्येकत एकाधिकानि त्र्यस्त्रिर्भवति तस्येषुस्तत्करोति --७

यथायूपं वेदिवर्द्धनमित्येतद्वक्ष्याम: --८

या रज्जुरेकादशोपरवान्सङ्क्षिपति दश च रथाक्षांस्तस्या यश्र्चतुर्विंशो भाग: स प्रक्रम: --९

तेन वेदिं निर्माय द्वादशाङ्गुलं पुरस्तादपच्छिद्य तद्यूपावत्याच्छङ्को: पुरस्तात्प्राञ्चमवधाय तस्मिन् यूपान्मिनोति --१०

पार्श्र्वयोर्वाऽर्धमन्तर्वेदीति श्रुततेरर्द्धकानिति --११

एके प्रथमोत्तमौ प्रकृतिवत् --१२

सैषा शिखण्डिनी वेदि: --१३

Hits: 227
X

Right Click

No right click