उत्तरेषु पुरुक्षोच्चयेनैकशतविधादित्येतद्वक्ष्याम: --१

आद्योऽग्निरद्विगुणस्त्रिगुणो भवतीति सर्वसमास: --२

एकविंशतिविधो भवतीति पुरषाभ्यास: --३

पुरुषाभ्यासे यावानग्नि: सपक्षपुच्छविशेषस्तावच्चतुरश्रं कृत्वा तस्मिन्पुरुषप्रमाणमवदध्यात् --४

समस्तं पञ्चदशभागान्कृत्वा द्वावेकसमासेन समस्येत् स पुरुष: --५

पञ्चविभागेन बृहती तस्य दशमविभागेन पादमात्री भवति --६

पुरुषं वा पञ्चमेनोभयतोऽपच्छिद्य पञ्चविभागन्समस्य तृतीयं निरहृत्य तस्मिन्पुरुषप्रमाणेऽवदध्यादित्यपरम् --७

पञ्चदशविभागोऽष्टाङ्गुलम् --८

पञ्चारत्रिर्दशवितस्तिर्विंशतिशताङ्गुल: पुरुष इत्येतस्माद्द्वादशाङ्गुलं पदमिति च --९

पुरुषं वा सप्तमेनोभयतोऽपच्छिद्य सप्तभागान्समस्य ससप्तमभागमङ्गुलं निहृत्य पुरुषप्रमाणेऽवदध्यादित्यपरम् --१०

नारत्रिवितस्तीनां समासो विद्यते संख्यायोगादिति श्रुते: --११

Hits: 205
X

Right Click

No right click