द्रोणचिद्रथचक्रवित्कङ्कचित्प्रउगचिदुभयत: प्रउग: समुह्यपुरीष इत्यग्नय: --१

द्रोणे यावानग्नि: सपक्षपुच्छविशेषस्तावच्चतुरश्रं कृत्वा द्रोणदशमविभागो वृन्तमित्येके । तद्दशमेनापच्छिद्यैकसमानेन समस्य निर्हृत्य सर्वमग्निं तथाकृतिं कृत्वा पुरस्तात्पश्र्चाद्वोपदध्यात् ।
मण्डलेऽप्येवम् --२

प्रउगे यावानग्नि: सपक्षपुच्छविशेषस्तावदि्द्वगुणं चतुरश्रं कृत्वा य: पुरस्तात्करणीमध्ये शङ्कुयौं च श्रोणयो: सोऽग्नि: --३

उभयत: प्रउगे तावदेव दीर्घचतुरश्रं कृत्वा करणीमध्येषु शङ्कव: स समाधि: --४

प्रउगं चतुरश्रं चिकीर्षन्मध्ये प्राञ्चमपच्छिद्य विपर्यस्येतरत उपधाय दीर्घचतुरश्रसमासेन समस्येत् स समाधि: --५

उभयत: प्रउगं चेन्मध्ये तिर्यगपच्छिद्य पूर्ववत्समस्येत् --६

एतेनैव त्रिकर्णसमासो व्याख्यात: । पञ्चकर्णानां च । प्रउगेऽपच्छिद्यैककर्णानां । द्विकर्णानां समचतुरश्रेऽपच्छिद्य --७

Hits: 226
X

Right Click

No right click