चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तावदुभयतोऽपच्छिद्य शङ्कू निखाय पार्श्र्वमानीं कृत्वा पार्श्र्वमानीसम्मितामक्ष्णयां तत्रोपसंहरति स समासेऽपच्छेद: सा करण्येष निर्र्हृास: --१

दीर्घचतुरश्रं चिकीर्षन् मध्ये तिर्यगपच्छिद्यान्यतरद्विभज्येतरत्पुरस्ताद्दक्षिणतश्र्चोपदध्याच्छेषमागन्तुना पुरयेत्तस्योक्तो निर्हृास: --२

अतिदीर्घं चेत्तिरयङ्मान्यापच्छिद्यापच्छिद्यैकसमासेन समस्य शेषं यथायोगमुपसंहरेदित्येक: समास: --३

समचतुरश्रं दीर्घचतुरश्रं चिकीर्षन्मध्येऽक्ष्णयाऽपच्छिद्य तच्च विभज्यान्यतरत्पुरस्तादुत्तरतश्र्चोपदध्याद्विषमं चेद्यथायोगमुपसंहरेदितिव्यास: --४

प्रमाणं चतुरश्रमादेशादन्यत् --५

द्विप्रमाना चतु:करणी त्रिप्रमान नवकरणी चतु:प्रमाणा षोडशकरणी --६

यावत्प्रना रज्जुर्भवति तावन्तस्तावन्तो वर्गा भवन्ति तान्समस्येत् --७कात्यायनशुल्बसूत्र

अर्धप्रमाणेन पादप्रमानम विधीयते । तृतीयेन नवमोंऽश: । चतुर्थेन षोडशी कला --८

एष निर्हृासस्तस्य पुरस्तादुक्तं शास्त्रम् --९

यावत्प्रमाणा रज्जुर्भवतीति विवृद्धे हृासो भवति --१०

चतुरश्रं मण्डलं चिकीर्षन्मध्यादंसे निपात्य पार्श्र्वत: परिलिख्य तत्र यदतिरिक्तं भवति तस्य तृतीयेन सह मण्डलं परिलिखेत् स समाधि: --११

मण्डलं चतुरश्रं चिकीर्षन् विष्कम्भम पञ्चदशबागान् कृत्वा द्वावुद्धरेच्छेष: करणी --१२

Hits: 232
X

Right Click

No right click