अङ्गुलै रथसंमिताया: प्रमाणम् । तत्राष्टाशीतिशतमीषा । चतु:शतमक्ष: ।षडशीतिर्युगम् । चत्वारोऽष्टका: शम्या --१

पैतृक्यां द्विपुरुषं समचतुरश्रं कृत्वा करणीमध्ये शङ्कव: स समाधि: --२

करणी तत्करणी तिर्यङ्गानी पार्श्र्वमान्यक्ष्णया चेति रज्जव: --३

पदं तिर्यङ्मानी त्रिपदा पार्श्र्वमानी तस्याक्ष्णया रज्जुर्दशकरणी --४

एवं द्विपदा तिर्यङ्मानी षट्पदा पारश्र्वमानी तस्याक्ष्णया रज्जुश्र्चत्वारिंशत्करणी --५

उपदिष्टं युगप्रमाणं शम्याप्रमानं च दर्शनात् --६

दीर्घचतुरश्रस्याक्ष्णयारज्जुस्तिङ्मानी पार्श्र्वमानी च यत्पृथग्भूते कुरुतस्तदुभयं करोतीति क्षेत्रज्ञानम् --७

समचतुरश्रस्याक्ष्णया रज्जुर्द्विकरणी ---८

करणीं तृतीयेन वर्धयेत्तच्चस्वचतुर्थेनात्मचतुस्तृंशोनेन सविशेष इति विशेष: --९

प्रमाणम तिर्यक् द्विकरणयायामस्तस्याक्ष्णया रज्जुस्त्रिकरणी --१०

तृतीयकरण्येतेन व्याख्याता । प्रमाणविभागस्तु नवधा करणीतृतीयं नवभाग: ।

नवभागास्त्रयस्तृतीयकरणी --११

सौतदरामण्यां प्रक्रमार्था । तृतीयकरणी समासार्था --१२

तुल्यप्रमानानां समचतुरस्त्राणामुक्त: समास: । नानाप्रमाणसमासे हृसीयस:करण्या वर्षीयसोऽपच्छिन्द्यात्तस्याक्ष्णया रज्जुरुभे समस्यतीति समास: --१३

Hits: 228
X

Right Click

No right click