अथापरः १

पुरुषस्य षोडशीभिर्विं शशतं सारत्निप्रादेशः सप्तविधः सं पद्यते २

तासामेकामपोद्ध त्य शेषाः परिमण्डलं करोति ३

तत्पूर्वेण रथचक्रचिता व्याख्यातम् ४

षोडशीं पुरस्ताद्विशय उपधाय तयासह मण्डलं परिलिखेत् ५

यदवस्तादपच्छिन्नं तत्पुरस्तादु पदध्यात् ६

प्रधीनां सप्तधा विभागः ७

प्रधिमध्यमाः प्रक्रमव्यासा भवन्ति ८

च-तुरश्राणामध्ध्याभिः संख्यां पूरयेत् ९

अपरस्मिन्प्रस्तारेप्रधिमध्यमामोष्ठ उपधाय यदवस्तात्तद् द्वेधा विभजेत् १०

स एष नवकरणो द्रोणचि-त्परिमण्डलः ११ समूह्य परिचाय्यौ पूर्वेण रथचक्रचिता व्याख्यातौ १२

समूह्यस्य दिक्षु चात्वालान् खानयित्वा तेभ्यः पुरीषं समूह्यो-पदध्यात् १३

परिचाय्य इष्टकानां देशभेदः १४

तं सर्वा भिः प्रदक्षिणं परिचिनु यात् १५

१८

Hits: 390
X

Right Click

No right click