अथापरः १

पुरुषस्य पञ्चम्यः । ता एवै कतोऽध्यर्धाः । तासामध्ध्याः पाद्याश्च २

उपधाने। पूर्वा परयोः पक्षपाश्श्वयोरर्धेष्टका उदीचीरुपदध्यात् । तथोत्तरे ३

दक्षिणोत्तरयोः पु च्छपाश्श्वयोश्चतस्रश्चतस्रोऽध्यर्धा उदीचीः । पु च्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीः । तासामभितो द्वे पादेष्टके । जघनेन पु च्छाप्ययोरेक कामर्धेष्टकां प्राचीम् ४

शेषमग्निं पञ्चमभा-गीयाभिः प्रच्छादयेत् ५

एष द्विशतः प्रस्तारः ६

अपरस्मिन् प्रस्तार आत्मस्रक्तिषु चतस्रः पादेष्टका उपदध्यात् । तासामभितो द्वे द्वे अर्धेष्टके । पूर्वस्मिन्ननिके पञ्च ७

पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीः । तासामन्तरलेष्वेक कामर्धेष्टकां प्राचीम् ८

शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ९

एष द्विशतः प्रस्तारो व्यत्यासं चिनु याद्यावतः प्रस्तारां -श्चिकीर्षेत् १०

Hits: 182
X

Right Click

No right click