अथाग्न्याधेयिके विहारेगार्हपत्यादाहवनीयस्यायतनम् । विज्ञाय-तेऽष्टषु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतै कादशसु राजन्यो द्वादशसु वै श्य इति १

आयामतृतीयेन त्रीणि चतु रश्राण्यनूचीनानि कारयेत् । अपर-स्योत्तरस्यां श्रोण्यां गार्हपत्यः । तस्यै व दक्षिणेंऽसेऽन्वाहार्यपचनः पूर्वस्योत्तरेंऽस आहवनीयः २

अपि वा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभुज्य षष्ठं सप्तमं वा भागमागन्तु कमुपसमस्य समं त्रैधं विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या-हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणेशङ्कुं निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ३

अपि वा प्रमाणं पञ्चमेन वर्धयेत् । तत्सर्वं पञ्चधा सं भुज्यापरस्मादन्ताद् द्वयोर्भा गयोर्लक्षणं करोति । पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणेशङ्कुं निहन्ति । तद्दक्षि-णाग्नेरायतनं भवति ४

विपर्यस्तै तेनोत्करो व्याख्यातः ५

अपरेना-हवनीयं यजमानमात्री भवतीति दर्शपौर्णमासिकाया वेदेर्विज्ञायते  ६

तस्यास्त्रिभागोनं पश्चात्तिरश्ची । तस्या एवार्धं पुरस्तात्तिरश्ची । एवं दीर्घचतुरश्रमेकतोऽणिमद्विहृत्यस्रक्तिषु शङ्कत्नन्निहन्यात् ७

यावती पाश्श्वमानी द्विरभ्यस्ता तावतीं रज्जु मु भयतः पाशां कृत्वा मध्येलक्षणं करोति । दक्षिणयोः पाश्श्वयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणेशङ्कुं निहन्यात् । तस्मिन्पाशौ प्रतिमु च्य लक्षणेन दक्षिणं पाश्श्वं परिलिखेत् । एतेनोत्तरं पाश्श्वं व्याख्यातम् । पूवं पाश्श्वं तया द्विरभ्यस्तया परिलिखेत् । एवमपरम् ८

दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्तात्तिरश्चीति पाशु बन्धिकाया वेदेर्विज्ञायते। मानयोगस्तस्या व्याख्यातः । रथसं मितेत्येके षाम् । विराट् सं पन्ने-त्येके षाम् ९

शम्यामात्री चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते। समच-तुरश्राविशेषात् १०

वितृतीया वेदिर्भवतीति पै तृक्या वेदेर्विज्ञायते। महावेदेस्तृतीयेन समचतु रश्रकृतायास्तृतीयकरणी भवतीति । नवमस्तु भूमेर्भागो भवति । यजमानमात्री चतुःस्रक्तिर्भवतीत्येके षाम् । दिक्षु स्रक्तयो भवन्ति ११

वेदितृतीयेयजेतेति सौत्रामणिकीं वेदिमभ्यु पदि-शन्ति । महावेदेस्तृतीयेन समचतु रश्रकृताया अष्टादशपदा पाश्श्वमानी भवति । तस्यै दीर्घकरण्यामेकतोऽणिमत्करण्यां च यथाकामीति १२

Hits: 183
X

Right Click

No right click