तृतीयोऽध्याय: प्रथम आह्निक:

प्रसिद्धा इन्द्रियार्था:

१ इन्द्रियार्था: प्रसिद्धिरिइन्द्रियार्थेभ्योऽरथान्तरस्यहेतु:
२ सोऽनपदेश:
३ कारणाज्ञानात्
४ कार्येषु ज्ञानात्
५ अजानाच्च
६ अन्यदेव हेतुरित्यनपदेश:
७ अर्थान्तरं ह्यर्थान्तरस्यानपदेश:
८ संयोगि समवाय्येकार्थसमवायि विरोधि च
९ कार्य कार्यान्तरस्य
१० विरोध्यभूतं भूतस्य
११ भूतमभूतस्य
१२ भूतो भूतस्य
१३ प्रसिद्धिपूर्वकत्वादपदेशस्य
१४ अप्रसिद्धोऽनपदेशोऽसन्संदिग्धश्र्चानपदेश:
१५ यस्माद्विक्षाणी तस्मादश्र्व:
१६ यस्माद्विषाणी तस्मादगौरितिचानैकान्तिकस्योदाहरणम्
१७ आत्मेन्द्रियार्तसंनिकर्षाद्यन्निष्पद्यते तदन्यत्
१८ प्रवृत्तिनिवृत्तिश्र्च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्
१९ इति प्रथम आह्निक:

द्वितीय आह्निक:

आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावोऽभावस्य मनसो लिङ्गम्

१ तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते
२ प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चेकम्
३ प्रानापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकारा: सुखदु:खेच्छाद्वेषप्रयत्नाश्र्चात्मनो लिङ्गानि
४ तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते
५ यज्ञदत्त इति संनिकर्षे प्रत्यक्षाभावादृष्टंलिङ्गं न विद्यते
६ सामान्यतो दृष्टाच्चाविशेष:
७ तस्मादागमिक:
८ अहमिति शब्दस्य व्यतिरेकान्नागमिकम्
९ यदि दृष्टमन्वक्षमहम देवदत्तोऽहम यज्ञदत्त इति
१० दृष्ट आत्मनि लिङ्गे एक एव दृढत्वात्प्रत्यक्षवत्प्रत्यय:
११ देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्यय:
१२ संदिग्धस्तूपचार:
१३ अहमिति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तरप्रत्यक्ष:
१४ देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कार:
१५ न तु शरीरविशेषाद्यज्ञदत्तविष्णुमित्रयोरज्ञानं विषय:
१७ अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेर्नागमिक:
१८ सुखदु:खज्ञाननिष्पत्त्यविशेषादैकात्म्यम्
१९ व्यवस्थातो नाना
२० शास्त्रसामर्थ्याच्च
२१ इति द्वितीय आह्निक: इति तृतीयोऽध्याय:

 

Hits: 363
X

Right Click

No right click