सप्तचत्वारिंशत्तमं क्षेत्रम् (१४)

प्रकारान्तरम्।




भुजद्वयस्य चतुर्भुजं त्रिभुजे पतति कर्णस्य चतुर्भुजं न पतति। यदा भुजद्वयं समानं चेत् तदा पूर्वोक्तप्रकार एव पर्यवसन्न:। यदा अबभुजोऽधिकोऽस्ति तदा चतुर्भुजं कार्यम्। वदरेखा कार्या। कहरेखा च कार्या।

तत्र दवझरेखा सरला एका रेखा जातेति निश्र्चितम्। हकतरेखाप्येका सरलास्ति। पुनर्जकरेखा वर्द्धनीया लपर्यन्तम्। तदा जदचतुर्भुजस्य चत्वारि त्रिभुजानि भविष्यन्ति। उपरितनचतुर्णा त्रिभुजानामपि समानि भविष्यन्ति। कवचतुर्भुजं द्वयोर्योज्यते तदेष्टं स्फुटं स्यात्।

Hits: 427
X

Right Click

No right click