अथैकोनचत्वारिंशत्तमं क्षेत्रम् ।


त्रिभुजद्वयं समानमेकदिशि स्थितमेकभुजोपरि यदि भवति तश्र्त्रिभुजद्वयं द्वयो: समानान्तररेखयोर्मध्यवर्तिम भविष्यति ।


यथा अबजत्रिभुजदबजत्रिभुजे बजभुजोपरि स्थिते ।

पुन: अदरेखा कार्या । सा बजरेखाया: समानान्तरा भवति । यदि समानान्तरा न स्यात् तदा अहरेखा बजरेखासमानान्तरा स्यात् । हजरेखा कार्या ।

तत्र हबजत्रिभुजं अबजत्रिभुजेन समानम् । अबजत्रिभुजं दबजत्रिभुजेन समानम् । तदा हबजत्रुभुजं दबजत्रिभुजेन समानम जातं खण्डस्य साम्यात् ।

इदमनुपपन्नम् ।।

Hits: 194
X

Right Click

No right click