अथैकोनविंशतितमं क्षेत्रम् ।


तत्र त्रिभुजे योऽधिककोणस्तत्सन्मुखभुजो'पि महान् भवति योऽल्पकोणस्तत्सन्मुखभुजोऽपि लघुर्भवति ।
यथा अबजत्रिभुजे जकोण: बकोणान्महानस्ति । तस्मात् अबभुजोऽपि अजभुजान्महान् भविष्यति ।
कुत: ।
यदि अबभुज: अजभुजान्महान् न भवति तदा तत्समो वा तन्न्यूनो वा भविष्यति । यदि समस्तदा बजकोणौ समानौ भविष्यत: । जकोणस्तु बकोणादधिकोऽस्ति । पुन: अबबुज: अजभुजात् यद्यल्पो'स्ति तदा बकोण: जकोणादधिक: स्यात् । जकोणस्तु बकोणादधिक: कल्पितोऽस्ति । पुन: अबभुज: अजभुजात् यद्यल्पोऽस्ति तदा बकोण: जकोणादधिक: स्यात् । जकोणस्तु बकोणादधिक: कल्पितोऽस्ति । तस्मात् अबभुज; अजभुजादधिको भविष्यतीत्येतदेवेष्टम् ।

Hits: 224
X

Right Click

No right click