अथाष्टादशं क्षेत्रम् ।
तत्र त्रिभुजे बृहद्भुसन्मुख: कोन: लघुभुजसनमुखकोणान्महान् भवति ।


यथा अबजत्रिभजे अबभुज: अजभुजान्महानस्ति । तस्माज्जकोण: बकोणादधिको भविष्यति ।
कुत: ।
यदि अबभुजे अजतुल्यं अदं पृथक् क्रियते जदरेखा च क्रियते तदा अदजकोणअजदकोणौ समानौ भवत: । अदजकोणस्तु अबजकोणान्महानस्ति । अजदकोणोऽपि महानस्ति । पुन: अजबकोणोऽपि अजदकोणादधिकोऽस्ति । तस्मात् अजबकोण: अबजकोणादतिमहान् जात: तदेवमुपपन्नम् ।

पुन: प्रकारान्तरम् ।
अजरेखा दपर्यन्तं नेया। अबतुल्यं अदं च कार्यम् । दबरेखा च कार्या । तत्र अबदकोण अदबकोणौ समानौ स्त: । अबदकोणस्तु अबजकोणान्महानस्ति । अदबकोणोऽपि अबजकोणान्महानस्ति । पुन: अजबकोण: अदबकोणादधिकोऽस्ति । तस्मात् अजबकोण: अबजकोणादतीव महान् जात:। तदेवमुपपन्नं यथोक्तम् ।।
पुन: प्रकारान्तरम् ।

अंकेन्द्रं कृत्वा अबव्यासार्द्धेन बदवृत्तं कार्यम् । बजरेखा वृत्तलग्ना दपर्यन्तं नेया । अदरेखा च कार्या । अबदत्रिभुजे बकोणदकोणौ समानौ स्त: । अजबकोणादप्यधिकोभविष्यति । इदमेवेष्टमस्माकम् ।।

Hits: 228
X

Right Click

No right click