अथ पञ्चदशं क्षेत्रम् ।
तत्र रेखाद्वयसंपातादुत्पन्नम कोणचतुष्ट्यं तेषु परस्परसन्मुखं कोणद्वयं समानं भवति ।


यथा अबरेखाजदरेखाभ्यां हचिन्हे संपात: कृत: । तत्र जहबकोणअहदकोणौपरस्परसन्मुखौ समानौ स्त: । कुत: ।
बहजकोणजहअकोणयोर्योग: समकोणद्वयतुल्योऽस्ति ।
पुनर्जहअकोणअहदकोणयोर्योगोऽपि समकोणद्वयसमानोस्ति । जहअकोणश्र्चोभयो: कोणयोर्मिलितोस्ति स दूतीक्रियते चेत्तदा बहजकोणअहदकोनावपि शेषौ समानौ स्त: । तदा रेखाद्वयसणपातात् उत्पन्नं कोणचतुष्ट्यं चतुर्भि: समकोणै समानं जातम् ।
इदमेवास्माकमिष्टम् ।
अथ च यस्मिश्र्चिन्हे यावत्यो रेखा मिलितास्तत्रोत्पन्ना ये कोणास्ते चतुर्णि: समकोणै: भवन्ति ।।

Hits: 232
X

Right Click

No right click