बिन्दुश्र्च केन्द्रसंज्ञ: ।
केन्द्रोपरिगतं सूत्रमुभयत: पालिसंलग्नं व्याससंज्ञंस्यात् ।
व्याससूत्रं वृत्तक्षेत्रस्य समानं भागद्वयं करोति ।
या रेका केन्द्रगा स्यात् किं च पालिलग्ना स्यात् तदुभयत: खण्डद्वयं विषमं भवति सा रेखा चाोकर्णसंज्ञा पूर्णजासंज्ञा च भवति ।
अथ सरलरेखाकृतानि क्षेत्राण्युच्यन्ते ।
तत्रादौ त्रिभुजमुच्यते ।
तत् तरिविधम् । एकं समत्रबाहुकम् । द्वितीयं समद्विबाहुकम् ।
तृतीयं विषमत्रिबाहुकम। 

पुनस्तत्कोणैरपि त्तिभुजं त्रिविधं भवति । तद्यथा ।
यस्मिन्नेक: समकोणोऽन्यौ न्यूनकोणौ तत् समकोणत्रिभुजं ज्ञेयम् ।

यस्यैकोऽधिककोणोऽन्यौ न्यूनौ स्तस्तद् अधिककोणत्रिभुजं ज्ञेयम् ।

Hits: 286
X

Right Click

No right click