कर्मधारय समास उदाहरणे

महापदानि महान्ति पदानि ।
स्वप्राणा: स्वे प्राणा: ।
सर्वोपायै: सर्वे उपाया: तै: ।
मूढालसा: मूढा: च ते आलसा: च ।
बहुप्रयत्नै: बहव: प्रयत्ना: तै: ।
मिष्टान्नम् मिष्टम् अन्नम् ।
प्रकृतभोजनम् प्राकृतम् भोजनम् ।
परमचिंता परमा चिन्ता ।
वार्षिकश्राद्धम् वार्षिकम् श्राद्धम् ।
चीनांशुके चीनम् अंशुकम् तस्मिन् ।
भूरिश्रमै: भूरय: श्रमा: तै: ।
प्रकृतान्नम् प्राकृतम् अन्नम् ।
स्वालस्यस्य स्वम् आलस्यम् तस्य ।
ऋषिजनेन ऋषि: जन: तेन ।
बालमृगेंद्रम् बाल: मृगेन्द्र: तम् ।
दुर्मोकहस्तग्रहेण दुर्मोक: हस्तग्रह: तेन ।
महर्षि: महान् ऋषि: ।
मनोरथम् मन: एव रथ: तम् ।
अर्धदेड: अर्ध: देह: ।
स्तुतिकन्या स्तुति: एव कन्या ।
गात्रयष्टिम् गात्रम् एव यष्टि: ताम् ।
संपद्रोग: सम्पद् एव रोग: ।
भारतवर्षे भारतम् वर्षम् तस्मिन् ।
सर्वदु:खानि सर्वाणि दु:खानि ।
पाटणानगरे पाटणा नगरम् तस्मिन् ।
दीनजनानाम् दीना: जना: तेषाम् ।
भारतीयनागरिकत्वम् भारतीयम् नागरिकत्वम् ।
कलकत्तानगरे कलकत्ता नगरम् तस्मिन् ।
कुष्ठरोग: कुष्ठ: रोग: ।
दीनावस्थाम् दीना अवस्था ताम् ।
निर्मलहृदयम् निर्मलम् हृदयम् ।
सर्वराष्ट्न्ेषु सर्वाणि राष्ट्नणि तेषु ।
सर्वदेशा: सर्वे देशा: ।
नगरान्तरम् अन्यत् नगरम् ।
अशीतिवर्षाणि अशीति वर्षाणि ।
अपूर्वोत्साहेन अपूर्व: उत्साह: तेन ।
महाप्रभु: महान् प्रभु: ।
विविधशास्त्राणि विविधानि शास्त्राणि ।
कठिनन्यायशास्त्रे कठिनम् न्यायशास्त्रम् तस्मिन् ।
स्वगृहम् स्वम् गृहम् ।
बहुनृपै: बहव: नृपा: तै: ।
कीर्तिपरिमल: कीर्ति: एव परिमल: ।
परस्परदर्शनम् परस्परम् दर्शनम् ।
रघुनाथ: रघु: एव नाथ: ।
रघुनाथपंडित: रघुनाथ: पण्डित: ।
मृदुवाण्या मृदु: वाणि: तया ।
स्वार्थ: स्व: अर्थ: ।
सप्तवर्णान् सप्त: च ते वर्णा: तान् ।
साष्टाङ्प्रणति: साष्टाङ्गा: प्रणति: ।
महाधनिक: महान् धनिक: ।
कृष्णाङ्गारा: कृष्णा: अङ्गारा: ।
परमार्थ: परम: अर्थ: ।
पितृकृतविभागस्य पितृकृत: विभाग: तस्य ।
प्रसिद्धशककर्ता प्रसिद्ध: शककर्ता ।
सकलजना: सकला: जना: ।
अनन्तावकाशे अनन्त: अवकाश: तस्मिन् ।
स्वान्त:करणम् स्वम् अन्त:करणम् ।
अपरिमितद्रव्यम् अपरिमितम् द्रव्यम् ।
प्रशान्तचेतसा प्रशान्तम् चेत: तेन ।
दण्डकारण्यम् दण्डकम् अरण्यम् ।
वन्यसत्वम् वन्यम् सत्वम् ।
प्रधानामात्ेन प्रधान: अमात्य: तेन ।
दुर्गमवनम् दुर्गमम् वनम् ।
महाराज: महान् राजा ।
अल्पकालेन अल्प: काल: तेन ।
आदरान्वितवचांसि आदरान्वितानि वचांसि ।
शब्दमात्रेण शब्द: एव तेन ।
स्वनगरम् स्वम् नगरम् ।
दानधर्म: दानम् एव धर्म: ।
बालतृणानि बालानि तृणानि ।
संस्कृतभाषा संस्कृता भाषा ।
भारतराष्ट्न्ेण भारतम् राष्ट्न्म् तेन ।
प्रथमोपग्रह: प्रथम: उपग्रह: ।
भारतीयललना भारतीया ललना ।
दक्षिणभारते दक्षिणम् भारतम् तस्मिन् ।
विविधग्रंथा: विविधा: ग्रन्था: ।
विविधसंख्यानाम् विविधा: संख्या: तासाम् ।
महाविद्यलये महान् विद्यालय: तस्मिन् ।
ज्ञानिजना: ज्ञानिन: जना: ।
यथार्थ: अर्थस्य अनुरूप: ।
अपरिमितश्रमै: अपरिमिता: श्रमा: तै: ।
अभिनवयौवनम् अभिनवम् यौवनम् ।
अप्रतिमरूपम् अप्रतिमम् रूपम् ।
पूर्वपुरुषै: पूर्वे पुरुषा: तै: ।
महोत्पातान् महान्त: उत्पाता: तान् ।
भोजराज: भोज: राजा ।
परमोदार: परम: उदार: ।
महाकविना महान् कवि: तेन ।
स्वमनोरथम् मन: एव रथ: । स्व: मनोरथ: तम् ।
परमसन्तुष्ट: परम: सन्तुष्ट: ।
चकितचकित: आदौ चकित: पश्चात् अपि चकित: ।
विदर्भविषय: विदर्भ: विषय: ।
प्रकांडपंडित: प्रकाण्डा: पण्डिता: ।
अमूल्यग्रंथानाम् अमूल्या: ग्रन्था: तेषाम् ।
सुबोधरीत्या सुबोधा रीति: तया ।
सूक्ष्मबुद्ध्या सूक्ष्मा बुद्धि: तया ।
भक्तिरस: भक्ति: एव रस: ।
एकांतनिष्ठाम् एकान्ता निष्ठा ताम् ।
नाट्याभिनयम् नाट्य: अभिनय: तम् ।
प्रस्तुतपाठे प्रस्तुत: पाठ: तस्मिन् ।
शुंडादंड: शुण्डा एव दण्ड: ।
अंतकाल: अन्त: काल: ।
पुरुषाधम: अधम: पुरुष: ।
दैवहतकम् हतकम् दैवम् ।
ग्रामांतरम् अन्य: ग्राम: ।
धीरोदात्त: धार: च असौ उदात्त: च ।
शुक्लकृष्णा: शुक्ला: च अमी कृष्णा: च ।
सुप्तोत्थित: आदौ सुप्त: पश्चात् उत्थित: ।
गृहीतमुक्त: आदौ गृहीत: पश्चात् मुक्त: ।
मेघश्याम: मेघ: इव श्याम: ।
फेनधवल: फेन: इव धवल: ।
काव्यामृतम् काव्यम् अमृतम् इव ।
नरसिंह: नर: सिंह: इव ।
विद्याधनम् विद्या एव धनम् ।
शोकाग्नि: शोक: एव अग्नि: ।
शापानल: शाप: एव अनल: ।
Hits: 2407
X

Right Click

No right click