षष्ठी तत्पुरुष

गिरिशिखरम् गिरे: शिखरम् ।
राजप्रसाद: राज्ञ: प्रसाद: ।
वृक्षपर्णानि वृक्षस्य पर्णानि ।
अर्थार्थी अर्थस्य अर्थी ।
जीवलोक: जीवानाम् लोक: ।
दुर्जनसंसर्ग: दुर्जनस्य संसर्ग: ।
मानहानि: मानस्य हानि: ।
लोहसंसर्ग: लोहस्य संसर्ग: ।
राजसभाम् राज्ञ: सभा ताम् ।
पारितोषिकाशया पारितोषिकस्य आशा तया ।
रक्षणोपाय: रक्षणस्य उपाय: ।
बुद्धिचातुर्येण बुद्धे: चातुर्यम् तेन ।
मिष्टान्नभक्षणम् मिष्टान्नस्य भक्षणम् ।
वार्षिकश्राद्धावसरे वार्षिकश्राद्धस्य अवसर: तस्मिन् ।
पुस्तिकापठनम् पुस्तिकाया: पठनम् ।
शङ्कालेश: शङ्काया: लेश: ।
स्वालस्यस्य स्वस्य आलस्यम् तस्य ।
मृगेंद्रम् मृगाणाम् इन्द्र: ।
ऋषिकुमारस्य ऋषे: कुमार: तस्य ।
हस्तग्रह: हस्तस्य ग्रह: ।
महर्षिपुत्र: महर्षे: पुत्र: ।
परदारा: परेषां दारा ।
दृष्टिक्षेप: दृष्टे: क्षेप: ।
नामसादृश्येन नाम्न: सादृश्यम् तेन ।
सिंहशावक: सिहस्य शावक: ।
चंद्रार्ध: चन्द्रस्य अर्ध: ।
चंद्रांशव: चन्द्रस्य अंशव: ।
कर्णविवरम् कर्णस्य विवर: तम् ।
करुणामूर्ति: करुणाया: मूर्ति: ।
िख्र्तासब्दे: िख्र्तास्स्य अब्द: तस्मिन् ।
पितृवियोग: पितु: वियोग: ।
सेवाकार्यम् सेवाया: कार्यम् ।
विद्यालये विद्याया: आलय: तस्मिन् ।
अध्यापनव्रतम् अध्यापनस्य व्रतम् ।
जीवनसाध्यम् जीवनस्य साध्यम् ।
अध्यापिकापदम् अध्यापिकाया: पदम् ।
रुग्णसेवा रुग्णानाम् सेवा ।
ईश्वरसेवा ईश्वरस्य सेवा ।
भारतशासनेन भारतस्य शासनम् तेन ।
भारतरत्नम् भारतस्य रत्नम् तेन ।
दीनमाता दीनानाम् माता ।
व्यसनकाल: व्यसनस्य काल: ।
गुरुगृहम् गुरो: गृहम् ।
ईश्वरचिंतने ईश्वरस्य चिन्तनम् तस्मिन् ।
तटिनीतटम् तटिन्या: तटम् ।
रघुनाथ: रघूणाम् नाथ: ।
सूर्यप्रकाश: सूर्यस्य प्रकाश: ।
श्रुतिपथम् श्रुते: पथम् ।
दु:खकारकाम् दु:खस्य कारकाम् ।
कार्योत्पत्ति: कार्यस्य उत्पत्ति: ।
परार्थ: परस्य अथ: ।
स्वार्थ: स्वस्य अर्थ: ।
मेघकंठे मेघस्य कण्ठे ।
जगन्मूलम् जगत: मूलम् ।
संपत्तिविभाजनम् सम्पत्ते: विभाजनम् ।
कलशचतुष्टयम् कलशानाम् चतुष्टयम् ।
कुंभकारगृहम् कुम्भकारस्य गृहम् ।
राजकार्ये राज्ञ: कार्यम् तस्मिन् ।
शककर्ता शकस्य कर्ता ।
भवच्छिष्यान् भवताम् शिष्या: तान् ।
छिद्रान्वेषिण: छिद्रस्य अन्वेषिण: ।
हितैषिण: हितस्य एषिण: ।
स्वानत:करणम् स्वस्य अन्त:करणम् ।
सुवर्णगुणातिरेकेण सुवर्णस् गुण: । सुवर्णगुणस्य अतिरेक: तेन ।
स्वेदबिंदुभि: स्वेदस्य बिन्दव: तै: ।
अरण्यमध्ये अरण्यस्य मध्यम् तस्मिन् ।
वृक्षतले वृक्षस्य तलम् तस्मिन् ।
पदरव: पदानाम् रव: ।
सेनापति: सेनाया: पति: ।
नृपति: नृणाम् पति: ।
अधिकारपदानि अधिकारस्य पदानि ।
शब्दविशेषै: शब्दानाम् विशेष: तै: ।
स्वनगरम् स्वस्य नगरम् ।
निद्रागमे निद्राया: आगम: तस्मिन् ।
विश्वमूर्ति: विश्वस्य मूर्ति: ।
जगन्नाथ: जगत: नाथ: ।
ग्रहणशक्ति: ग्रहणस्य शक्ति: ।
कल्पनाशक्ति: कल्पनाया: शक्ति: ।
पाणिनीविषये पाणिने: विषय: तस्मिन् ।
भूप्रदेश: भुव: प्रदेश: ।
नयनानन्द: नयनयो: आनन्द: ।
ज्ञानतृष्णा ज्ञानस्य तृष्णा ।
स्वदेशम् स्वस्य देश: तम् ।
पूजास्थानम् पूजाया: स्थानम् ।
मानुषशक्ति: मेनुषस्य शक्ति: ।
कुलक्रम: कुलस्य क्रम: ।
दिग्विजय: दिशाम् विजय: ।
कुलविनाशकम् कुलस्य विनाशकम् ।
मङ्गलायनम् मङ्गलस्य अयनम् ।
सुरापानम् सुराया: पानम् ।
मद्यपानम् मद्यस्य पानम् ।
कुलक्षय: कुलस्य क्षय: ।
द्रविणाशया द्रविणस्य आशया ।
सभाद्वारम् सभाया: द्वारम् ।
धूलिपीडा धूले: पीडा ।
रहस्यभेद: रहस्यस्य भेद: ।
सारस्वतजन्मभू: जन्मन: भू: । सारस्वतानाम् जन्मभू: ।
कृषकपरिवार: कृषकस्य परिवार: ।
देवालये देवस्य आलय: तस्मिन् ।
शास्त्रचर्चा शास्त्राणाम् चर्चा ।
शास्त्रज्ञाम् शास्त्राणाम् ज्ञानम् ।
कुशाग्रम् कुशस्य अग्रम् ।
भक्तिविषये भक्ते: विषय: तस्मिन् ।
संस्कृतवाङ्मये संस्कृस्य वाङ्मयम् तसिमन् ।
यमालयम् यमस्य आलयम् ।
Hits: 1056
X

Right Click

No right click