उपपद तत्पुरुष

गृहस्थः गृहे तिष्ठति इति ।
विद्यार्थी विद्याम् अर्थयते इति ।
अग्रजः अग्रे जायते इति ।
पङ्कजम् पङ्के जायते इति ।
सुलभम् सुखेन लभ्यते इति ।
वृक्षस्थः वृक्षे तिष्ठति इतित ।
सर्वज्ञः सर्वम् जानाति इति ।
अनुजः अनु जायते इति ।
कुम्भकारः कुम्भम् करोति इति ।
चित्रकारः चित्रम् करोति इति ।
अन्तकः अन्तम् करोति इति ।
नृपः नृन् पाति इति ।
ग्रामवासिभिः ग्रामे वसन्ति इति तैः ।
सर्वदमनः सर्वान् दमयति इति ।
मधुपः मधु पिबति इति ।
मद्यपः मद्यं पिबति इति ।
पुराविदः पुरा विदन्ति इति ।
सहचरेभ्यः सह चरन्ति इति तेभ्यः ।
शास्त्रज्ञः शास्त्रम् जानाति इति ।
नयनानन्दकरम् नयनानन्दम् करोति इति ।
गणितज्ञः गणितम् जानाति इति ।
मोहकारिणी मोहम् कारयति इदम् तस्मिन् ।
त्रैलोक्यदर्शी त्रैलोक्यम् पश्यति इति ।
अरिष्टघ्नः अरिष्टानि हन्ति इति ।
श्रेयस्करम् श्रेयः करोति इति ।
ऐक्यशालिनाम् ऐक्येन शालन्ते इति तेषाम् ।
पारगाः पारम् गच्छन्ति इति ।
मोदकरम् मोदम् करोति इति ।
दुःखकरम् दुःखम् करोति इति ।
अग्निभूः अग्नौ भवति इति ।
अध्वगः अध्वनि गच्छति इति ।
पयोदः पयः ददाति इति ।

 

Hits: 1205
X

Right Click

No right click