बहुव्रीहि समास

महात्मा महान् आत्मा यस्य सः ।
ईश्वरनिष्ठः ईश्वरे निष्ठा यस्य सः ।
चक्रपाणिः चक्रम् पाणौ यस्य सः ।
गजाननः गजस्य आननम् इव आननम् यस्य सः ।
केयूरवृत्तिः केयूरा वृत्तिः यस्य सः ।
भूरिवित्तः भूरि वित्तम् यस्य सः ।
भादौ भः आदौ यस्याः सा तस्याम् ।
छद्यमशीलः उद्यमः शीलम् यस्य सः ।
लब्धशिक्षः लब्धा शिखा येन सः ।
बालसत्वः बालस्य सत्वम् यस्मिन् सः ।
कृतनामधेयः कृतम् नामधेयम् यस्य सः ।
एकान्वयः एकः अन्वयः यस्य सः ।
भद्रमुखः भद्रम् मुखम् यस्य सः ।
मृन्मयूरहस्ता मृन्मयूरः हस्ते यस्याः सा ।
मणिबन्धे मणेः बन्धः यस्मिन् सः ।
चन्द्रानना चन्द्रः इव आननम् यस्याः सा ।
चन्द्राननार्धदेहः चन्द्रानना अर्धदेहः यस्य सः ।
चिन्तनशीला चिन्तनम् शीलम् यस्याः सा ।
आसन्नमरणानाम् आसन्नम् मरणम् येषाम् ते तेषाम् ।
इत्यादिभिः इति आदौ येषाम् ते तैः ।
दर्शितादरस्य दर्शितः आदरः यस्मै सः तस्य ।
विषण्णवदनः विषण्णम् वदनम् यस्य सः ।
न्यायनिष्ठा न्याये निष्ठा येषाम् ते ।
सत्यप्रियाः सत्यम् प्रियम् येषाम् ते ।
रुचिरवर्णानि रुचिराः वर्णाः येषाम् तानि ।
बहुमूल्यम् बहु मूल्यम् यस्य तत् ।
प्रशान्तचेतसा प्रशान्तम् चेतः यस्य सः तेन ।
त्रिविधा तिस्राः विधाः यस्याः सा ।
आर्यभट्टाख्यः आर्यभट्टः इति आख्या यस्य सः ।
इत्यभिधाना इति अभिधानम् यस्याः सा ।
महोदयः महान् उदयः यस्य सः ।
अतिप्रदीप्तप्रज्ञामेधेन अतिप्रदीप्ते प्रज्ञामेधे यस्य सः ।
इतिहासभाषादयः इतिहासभाषाः आदौ येषाम् ते ।
महाभागस्य महान् भागः यस्य सः ।
प्रसन्नमनसा प्रसन्नम् मनः यस्य सः तेन ।
मन्दभाग्यः मन्दम् भाग्यम् यस्य सः ।
क्षीणप्रकृतिः क्षीणा प्रकृतिः यस्य सः ।
स्थितप्रज्ञः स्थिता प्रज्ञा यस्य सः ।
शान्तचेताः शान्तम् चेतः यस्य सः ।
अल्पायुः अल्पम् आयुः यस्य सः ।
सन्तुष्टमनाः सन्तुष्टम् मनः यस्य सः ।
विदितवेदितव्यः विदितम् वेदितव्यम् येन सः ।
यौवनप्रभवम् यौवनात् प्रभवः यस्य तत् ।
समारोपितसंसकारः समारोपिताः संस्काराः यस्मिन् सः ।
तरलहृदयम् तरलम् हृदयम् यस्य सः ।
महासत्वम् महत् सत्वम् यस्य सः ।
प्राब्धदिग्विजयः प्रारब्धः दिग्विजयः येन सः ।
आरूढप्रतापः आरूढम् प्रतापम् येन सः ।
सिद्धादेशः सिद्धः आदेशः यस्य सः ।
बहुविधम् बहवः विधाः यस्य तत् ।
मूढचेतसाम् मूढम् चेतः येषाम् ते तेषाम् ।
दृप्तचेतसाम् दृप्तम् चेतः येषाम् ते ।
गन्तुकामः गन्तुम् कामः यस्य सः ।
संजातकरुणः सञ्जाता करुणा यस्मिन् सः ।
बद्धाञ्जलिः बद्धा अञ्जलिः येन सः ।
प्रज्ञाचक्षुः प्रज्ञा एव चक्षुः यस्य सः ।
विद्यानिधिः विद्यायाः निधिः यस्य सः ।
दृढश्रद्धा दृढा श्रद्धा यस्य सः ।
परमार्थपरेण परमार्थः परः यस्य सः तेन ।
बोधपरम् बोधः परः यस्य तत् ।
संवासरूपाणि संवादः रुपम् येषाम् तानि ।
संवादपराणि संवादः परः येषाम् तानि ।
समधिकोन्नतिः समधिका उन्नतिः यस्य सः ।
उभयतःपुच्छः उभयतः पुच्छौ यस्य सः ।
दैवहतकम् हतकम् दैवकम् यस्य सः ।
शार्दूलादिभिः शार्दूलाः आदौ येषाम् ते तैः ।
पन्नगभूषणः पन्नगः भूषणम् यस्य सः ।
गदाहस्तः गदा हस्ते यस्य सः ।
सिंहमुखः सिंहस्य इव मुखम् यस्य सः ।
विमलोदकः विमलम् उदकम् यस्मिन् सः ।
कृतार्थः कृतः अर्थः येन सः ।
धर्मनिष्ठः धर्मे निष्ठा यस्य सः ।
बहुनदीकः देशः बहवः नद्यः यस्मिन् सः ।
सपत्नीकः पुरुषः पत्न्या सहवर्तमानः ।
गतभर्तृका नारी गतः भर्ता यस्याः सा ।
जीवत्पितृकः बालः जीवन् पिता यस्य सः ।
गन्तुमनाः पथिकः गन्तुम् मनःयस्य सः ।
त्यक्तुकामः त्यक्तुम् कामः यस्य सः ।
श्रोतृकामः छात्रः श्रोत्रुम् कामः यस्य सः ।
प्रतियातुकामा तापसी प्रतियातुम् कामःयस्याःसा ।

 

Hits: 1031
X

Right Click

No right click