| अहः - दिनम्, दिवसः, घस्रः. वासरः |
| आत्मगतम् - स्वगतम् |
| आदिः - प्रथमः, आद्यः |
| आदेशः - निदेशः. निर्देशः, शासनम्, शिष्टिः, आज्ञा |
| आद्यम् - प्रथमम् |
| आनन्तर्या - वधोद्यतः, वधकः, अविवेकी, महापापः |
| आनन्दः - मोदः, हर्षः |
| आम्रः - रसालः, चूतः, सहकारः |
| आयुः - जीवनम् |
| आलयः - गृहम्, भवनम्, निकेतनम्, मन्दिरम्, गेहम्, सदनम्, निवासः, वेश्म |
| इषुः - बाणः, खगः, आशुगः, कलम्बः, शरः, रोपः, पृषरकः, विशिखः, पत्री |
| उटजः - कुटी, कुटीरः, कुटीरम्, शुचिः, पर्णशाला |
| उत्पत्तिः - जनुः, जननम्, जन्म, जनिः, उद्भवः |
| उद्यमः - व्यवसायः |
| कठिनम् - दुष्करम् |
| कपोतः - पारावतः, कलरवः |
| कमलम् - पद्मम्, पङ्कजम्, सरोजम्, सरसिजम्, राजीवम्, अरविन्दम् |
| करुणा - कृपा, दया, घृणा, अनुकम्पा, अनुक्रोशः, कारुण्यम् |
| कर्णः - श्रवः, श्रुतिः |
| कर्दमः - पङ्कः |
| कविः - सुधीः, बुधः, मनीषी, सूरिः |
| काकः - वायसः, ध्वाङ्क्षः, परभृत्, करटः |
| कार्तिकेयः - षडाननः, स्कन्दः, गुहः, बाहुलेयः, विशाखः, कुमारः, षाण्मातुरः, शिखिवाहनः, महासेनः, अग्निभूः, शरजन्मा, सेनानीः |
| कार्यम् - क्रिया, कृतिः |
| कालः - समयः |
| किरणः - मयूखः, अंशुः, करः |
| कुटिलः - वक्रः |
| कुतूहलम् - जिज्ञासा, कौतुकम् |
| कुरङ्गः - मृगः, हरिणः, वातायुः |
| कुशलः - चतुरः, प्रवीणः, निपुणः, पारङ्गतः, दक्षः, अभिज्ञः, निष्णातः, कोविदः |