अहः दिनम्, दिवसः, घस्रः. वासरः
आत्मगतम् स्वगतम्
आदिः प्रथमः, आद्यः
आदेशः निदेशः. निर्देशः, शासनम्, शिष्टिः, आज्ञा
आद्यम् प्रथमम्
आनन्तर्या वधोद्यतः, वधकः, अविवेकी, महापापः
आनन्दः मोदः, हर्षः
आम्रः रसालः, चूतः, सहकारः
आयुः जीवनम्
आलयः गृहम्, भवनम्, निकेतनम्, मन्दिरम्, गेहम्, सदनम्, निवासः, वेश्म
इषुः बाणः, खगः, आशुगः, कलम्बः, शरः, रोपः, पृषरकः, विशिखः, पत्री
उटजः कुटी, कुटीरः, कुटीरम्, शुचिः, पर्णशाला
उत्पत्तिः जनुः, जननम्, जन्म, जनिः, उद्भवः
उद्यमः व्यवसायः
कठिनम् दुष्करम्
कपोतः पारावतः, कलरवः
कमलम् पद्मम्, पङ्कजम्, सरोजम्, सरसिजम्, राजीवम्, अरविन्दम्
करुणा कृपा, दया, घृणा, अनुकम्पा, अनुक्रोशः, कारुण्यम्
कर्णः श्रवः, श्रुतिः
कर्दमः पङ्कः
कविः सुधीः, बुधः, मनीषी, सूरिः
काकः वायसः, ध्वाङ्क्षः, परभृत्, करटः
कार्तिकेयः षडाननः, स्कन्दः, गुहः, बाहुलेयः, विशाखः, कुमारः, षाण्मातुरः, शिखिवाहनः, महासेनः, अग्निभूः, शरजन्मा, सेनानीः
कार्यम् क्रिया, कृतिः
कालः समयः
किरणः मयूखः, अंशुः, करः
कुटिलः वक्रः
कुतूहलम् जिज्ञासा, कौतुकम्
कुरङ्गः मृगः, हरिणः, वातायुः
कुशलः चतुरः, प्रवीणः, निपुणः, पारङ्गतः, दक्षः, अभिज्ञः, निष्णातः, कोविदः
Hits: 4204
X

Right Click

No right click