शरीरम् - सिंहः
| शरीरम् - तनुः, कायः, देहः, अङ्गम् |
|
शिखरम् - कूटः, सानुः, सानु, शृङ्गम्, प्रस्थः |
| शिशुः - बालः, पोतः, पाकः, अर्भकः, डिम्भः, पृथुकः, शावकः |
| शिष्यः - छात्रः, विद्यार्थी, अन्तेवासी |
| शीलम् - शुचितम्, शुद्धाचरणम्, सच्चरितम् |
| शैशवम् - बाल्यम् |
| शोभनम् - साधु, सुन्दरम्, सुष्ठु |
| श्येनः - शशादनः, पत्री |
|
श्रेयः - कल्याणम्, हितम् |
| श्वेतः - शुभ्रः, धवलः |
| षट्पदः - भृङ्गः, भ्रमरः, मधुपः, द्विरेफः, अलिः |
| संकटम् - विघ्नः |
|
संघर्षः - घर्षणम्, स्पर्धा, प्रतियोगिता, संघट्टनम्, असूया |
| संदेहः - संशयः, शङ्का |
|
सांन्निधानम् - सामीप्यम्, संन्निधिः |
| संमानः - गौरवम् |
| सञ्चयः - सङ्ग्रहः, निधिः, आकरः |
|
सततम् - सदा, सर्वदा, सन्ततम्, नित्यम् |
| सत्कृतः - सम्मानितः, गौरवितः |
| सत्यम् - ऋतम् |
|
सत्वम् - जन्तुः, प्राणी |
| सत्वरम् - शीघ्रम्, अविलम्बितम्, त्वरितम्, झटिति, तूर्णम्, आशु |
| सदाचारः - सद्वर्तनम् |
| सदृशम् - समम्, समानम्, तुल्यम् |
| सप्रश्रयम् - सविनयम्, ससम्मानम्, सादरम् |
| सभा - परिषद् |
| सर्पः - भुजगः, भुजङ्गः, भुजङ्गमः, अहिः, व्यालः, काकोदरः, उरगः, पन्नगः, फणी |
| सागरः - समुदः, रत्नाकरः, अर्णवः, उदधिः, जलधिः, जलनिधिः |
| साधुः - सन्, सत्पुरुषः |
| सिंहः - मृगेन्द्रः, केसरी, हरिः, पञ्चास्यः, हर्यक्षः |
