शतं हतं येन युतं नवत्या ।

विवर्जितं वा व्हिहृतं त्रिषष्ट्या ॥

निरग्रकं स्यात्‌ वद मे गुणं तं ।

स्पष्टं पटीयान्‌ यदि कुट्टकेऽसि ॥२३४॥

भाजो हारः क्षेपकश्चापवर्त्यः ।

केनाप्यादौ संभवे कुट्टकार्यम्‌ ॥

येन च्छिन्नो भाज्यहारौ न तेन ।

क्षेपश्चैतद्‌दुष्टमुद्दिष्टमेव ॥२३५॥

परस्परं भाजितयोर्ययोरयः ।

शेषस्तयोः स्यादपवर्तनं सः ॥

तेनापवर्तेन विभाजिऔ यौ ।

तौ भाज्यहारौ दृढसंज्ञकौ स्तः ॥२३६॥

मिथो भजेत्तौ दृढभाज्यहारौ ।

यावत्‌ विभाज्ये भवतीह रूपं ॥

फलान्यधोधस्तदधो निवेश्य ।

क्षेपस्ततः शून्यमुपांतिमेन ॥२३७॥

स्वोर्ध्वे हतेऽन्त्येन युते तदन्त्यम्‌ ।

त्यजेन्मुहुः स्यादिति राशियुग्मम्‌ ॥

ऊर्ध्वो विभाज्येन दृढेन तष्टः ।

फलं गुणो स्यादधरो हरेण ॥२३८॥

एवं तदैवात्र यदा समास्ताः ।

स्युर्लब्धयश्चेद्विषमास्तदानीम्‌ ॥

यदागतौ लब्धिगुणौ विशोध्यौ ।

स्वतक्षणाच्छेषमितौ तु तौ स्तः ॥२३९॥

यद्रुणा क्षयगषष्टिरन्विता ।

वर्जिता च यदि वा त्रिभिस्ततः ।

स्यात्रयोदशहृता निरग्रका ।

तं गुणं गणक मे पृथग्वद ॥२४०॥

एकविंशतियुतं शतद्वयम्‌ ।

यद्गुणं गणक पंचषष्टियुक्‌ ।

पंचवर्जितशतद्वयोध्‍दृतम्‌ ।

शुद्धिमेति गुणकं वदाशु तत्‌ ॥२४१॥

भवतिकुट्टकविधेर्युतिभाज्ययोः ।

समपवर्तितयोरथवा गुणः ॥

भवति यो युतिभाजकयोः पुनः ।

स च भवेदपवर्तन-संगुणः ॥२४२॥

क्षेपजे तक्षणाच्छुद्धे गुणाप्ती स्तो वियोगजे ॥२४३॥

यद्‌गुणा गणक षष्टिरन्विता ।

वर्जिता च दशभिः षडुत्तरैः ॥

स्यात्‌ त्रयोदशहृता निरग्रका ।

तद्‌गुणं कथय मे पृथक्‌ पृथक्‌ ॥२४४॥

येन संगुणिताः पंच त्रयोविंशतिसंयुताः ।

वर्जिता वा त्रिभिर्भक्ता निरग्राः स्युः स को गुणः ॥२४५॥

क्शेपाभावे तथा तत्र क्षेपः शुद्धयेत्‌ हरोध्दृतः ।

ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारयुतः फलम्‌ ॥२४६॥

येन पंच गुणिताः खसंयुताः ।

पंचषष्टिसहिताश्च तेऽथवा ॥

स्युस्त्रयोदशहृता निरग्रकाः ।

तं गुणं गणक कीर्तयाशु मे ॥२४७॥

क्षेपं विशुद्धि परिकल्प्य रूपं\

पृथक्‌ पृथ्ग्ये गुणकारलब्धी ॥

अभिस्पित-क्षेपविशुद्धनिघ्ने।

स्वहारतष्टे भवतस्तयोस्ते ॥२४८॥

क्षेपजे तक्षणाच्छुद्धे गुणाप्ती तो वियोगजे ॥२४९॥

Hits: 394
X

Right Click

No right click