छाययोः कर्णयोरन्तरे ये तयोः । वर्गविश्लेषभक्ता रसाद्रीषवः ॥

सैकलब्धेः पदघ्नं तु कर्णात्रम्‌ । भांतरेणोनयुक्तं दले स्तः प्रभे ॥२२५॥

शंकुः प्रदीपतलशंकुतलांतरघ्नः ।

छाया भवेत्‌ विनरदीपशिखौच्च्यभवतः ॥२२६॥

शंकुप्रदीपांतरभूस्त्रिहस्ता ।

दीपोच्छ्रितिः सार्धकरत्रया चेत्‌ ॥

शंकोस्तदाऽकांगुलसंमितस्य ।

तस्य प्रभा स्यात्‌ कियती वदाऽशु ॥२२७॥

छायोद्‌धृते तु नरदीपतलांतरघ्ने।

शंकौ भवेन्नरयुते खलु दीपकौच्च्यम्‌ ॥२२८॥

प्रदीपशंक्वंतरभूस्त्रिहस्ता ।

छायांगुलैः षोडशभिः समा चेत्‌ ॥

दीपोच्छ्रितिः स्यात्‌ कियती वदाऽशु ।

प्रदीपशंक्वंतरमुच्च्यतां मे ॥२२९॥

विशंकुदीपोच्छ्रयसंगुणा भा ।

शंकूद्‌धृता दीपनरांतरं स्यात्‌ ॥२३०॥

छायाग्रयोरंतरसंगुणा भा ।

छायाप्रमाणांतरहृद्‌भवेत्‌ भूः ॥

भूशंकुघातः प्रभया विभक्तः ।

प्रजायते दीपशिखौच्च्यमेव ॥२३१॥

त्रैराशिकेनैव यदेतदुक्तम्‌ ।

व्याप्तं स्वभेदैर्हरिणेव विश्वम्‌ ॥२३२॥

शंकोर्भार्कमितांगुलस्य सुमते दृष्टा किलाष्टांगुला ।

छायाग्राभिमुखे क्रद्वयमिते न्यस्तस्य देशे पुनः ॥

तस्यैवार्कमितांगुला यदि तदा छाया-प्रदीपांतरम्‌ ।

दीपौच्च्यं च कियत्‌ वद व्यवहृतिं छायाभिधां देत्सि चेत्‌ ॥२३३॥

यत्किंचिद्‌गुणभागहारविधिना बीजेऽत्र वा गण्यते ।

तत्‌ त्रैराशिकमेव निर्र्मलधियामेवावगम्यं विदाम्‌ ॥

एतद्यत्‌ बहुधाऽम्सदादि जडधीधीवृद्धिबुद्धया बुधैः ।

तद्‍भेदान्‌ सुगमान्विधाय रचितं प्राज्ञैः प्रकीर्णादिकम्‌ ॥२३४॥

Hits: 395
X

Right Click

No right click