पिंडयोगदलमग्रमूलयोः । दैर्घ्य संगुणितमंगलात्मकम्‌ ॥

दारूदारणपथैः समाहतम्‌ । षट्‌स्वरेषुविहृतंकरात्मकं ॥२१८॥

मूले नखांगुलमितोऽथ नृपांगुलोऽग्रे ।

पिण्डः शतांगुलमितं किल यस्य दैर्घ्यम्‌ ॥

तद्दारुदारणपथेषु चतुर्षु किं स्यात्‍ ।

हस्तात्मकं वद सखे गणितं द्रुतं मे ॥२१९॥

छिद्यते तु यदि तिर्यगुक्तवत्‌ । पिंडविस्तृतिहतेः फलं तदा ॥

इष्टिकाचिति दृषच्चितिखात । - क्राकचव्यवहृतौ खलु मूल्यम्‌ ॥

कर्मकारजनसंप्रतिपत्त्या । तन्म्रुदुत्वकठिनत्ववशेन ॥२२०॥

Hits: 416
X

Right Click

No right click