गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या ।

स्थानकमित्या सममितिरेवं दैर्घ्येच व वेधे च ॥

क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यातऽऽ ॥२०९॥

भुजवक्रतया दैर्घ्यं दशेशार्ककरैर्मितम्‌ ।

त्रिषु स्थानेषु षट्‌ पंचसप्तहस्ता च विस्तृतिः ॥

यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः सखे ।

तत्र खाते कियंतः स्युर्घनहस्ताः प्रचक्ष्व मे ॥२१०॥

मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतम षड्‌भिः ।

क्षेत्रफलम समसेतद्वेधगुणं घनफलं स्पष्टम्‌ ।

समखातफलत्र्यंशः सुचीखाते फलं भवति ॥२११॥

मुखे दशद्वादशहस्ततुल्यम्‌ । विस्तारदैर्घ्यं तु तले तदर्थम्‌ ॥

यस्याः सखे सप्तकरश्च वेधः ।

का खातसंख्या वद तत्र वाप्याम्‌ ॥२१२॥

खातेऽथ तिग्मकरतुल्यचतुर्भुजे च ।

किं स्यात फलं नवमितः खलु यत्र वेधः ॥

वृत्ते तथैव दशविस्तृतिपंचवेधे ।

सूचीफलं वद तयोश्च पृथक्‌ पृथङ्मे ॥२१३॥

उच्छ्रयेन गुणितं चितेः किल । क्षेत्रसंभवफलं घनं भवेत्‌ ॥

इष्टिकाघनहृते घने चितेः । इष्टिकापरिमितिश्च लभ्यते ॥२१४॥

इष्टिकोच्छ्र्यहृदुच्छ्रितिश्चितेः । स्युःस्तराश्च दृषदां चितेरपि ॥२१५॥

अष्टादसांगौलं दैर्घ्यं विस्तारो द्वादशांगुलः ।

उच्छ्रितिपंचकराष्तहस्तं । दैर्घ्यं च यस्यां त्रिकरोच्छ्रितिश्च ॥

तस्याम चितौ किं फलमिष्टिकानां । संख्याच काब्रूहि कति स्तराश्च ॥२१७॥

Hits: 414
X

Right Click

No right click