इष्टो बाहुर्यःस्यात् तत्स्पर्धिन्यां दिशीतरो बाहुः ।
त्र्यस्त्रे चतुरस्त्रे वा सा कोटिः कीर्तिता तज्ञैः ॥१३०॥

तत्कृत्योर्योगपदं कर्णो दोः कर्णवर्गयोर्विवरात् ।
मूलं कोटिः कोटिश्रुतिकृत्योरन्तरात्पदं बाहुः ॥१३१॥

राश्योरंतरवर्गेण द्विघ्ने घाते युते तयोः ।
वर्गयोगी भवेदेवं तयोर्योगांतरा हतिः ॥
वर्गांतरं भवेदेवं ज्ञेयं सर्वत्र श्रीमता ॥१३२॥

कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र काश्रुतिः ।
कोटिं दोष्कर्णतः कोटिश्रुतिभ्यां च भुजं वद ॥१३३॥

सांघ्रित्रयमितो बाहुर्यत्र कोटिश्च तावती ।
तत्र कर्णप्रमाणं किं गणक ब्रूहि मे द्रुतम् ॥१३४॥

इष्टो भुजोऽस्माद्विगुणेननिघ्नात् । इष्टस्य कृत्यैकवियुक्तयाप्तम् ।
कोटिः पृथक् सेष्टगुणा भुजोना । कर्णो भवेत् त्र्यस्तमिदं तु जात्यम् ॥१३६॥

इष्टोभुजस्तत्कृतिरिष्टभक्ता । द्विः स्थापिताष्टोनयुताऽर्धिता वा ॥
तौ कोटिकर्णौ इति कोटितो वा । बाहुश्रुती चाकरणीगते स्तः ॥१३७॥

भुजे द्वादशके यौ यौ कोटिकर्णौ अनेकधा ।
प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ ॥१३८।।

इष्टेन निघ्नाद्द्विगुणाच्च कर्णात् । इष्टस्य कृत्येकयुजा यदाप्तम् ।
कोटिर्भवेत्सा पृथगिष्टनिघ्नी । तत्कर्णयोरन्तरमत्र बाहुः ॥१३९॥

पंचाशीतिमिते कर्णे यो यावकरणीगतौ ।
स्यातां कोटिभुजौ तौ ब्तौ वद कोविद सत्वरम् ॥१४०॥

इष्टवर्गएण सैकेन द्विगुणः कर्णोऽथवा हृतः ।
फलोनः श्रवणः कोटिः फलमिष्टगुणं भुजः ॥१४१॥

इष्टयोराहतिद्विघ्नी कोटिर्वर्गान्तरं भुजः ।
कृतियोगस्तयोरेवं कर्णचाकरणीगतः ॥१४२॥

यैयैस्त्र्य्स्त्रं भव्र्ज्जत्यं कोटिदोः श्रवणैः सखे।
त्रीनप्यविदितानेतान् क्षिप्रं ब्रुहि विचक्षण ॥१४३॥

वंशाग्रमूलांतर-भूमिवर्गो । वंशोद्धृतस्तेन पृथग्युतोनौ ॥
वंशो तदर्धे भवतः क्रमेण । वंशस्य खंडे श्रुतिकोटिरूपे ॥१४४॥  

यदि समभुवि वेणुर्द्वित्रिपाणिप्रमाणो ।
गणक पवनवेगादेकदेशे स भग्नः ॥
भुवि नृपमितहस्ते व्यंग लग्नं तदग्रम् ।
कथय कतिषु मूलादेष भग्नः करेषु ॥१४५॥

स्तंभस्य वर्गोऽहिबिलांतरेण । भक्तः फलं व्यालबिलांतरालात् ॥
शोध्यं तदर्धप्रमितः करैः स्यात् । बिलाग्रतो व्यालकलापियोगः ॥१४६॥

अस्ति स्तंभतले बिलं तदुपरि क्रीडाशिखंडी स्थितः ।
स्तंभे हस्तनवोच्छ्रिते त्रिगुणितस्तंभप्रमाणांतरे ॥
दृष्ट्वाहिं बिलमाव्रजंतमपतत् तिर्यक् स तस्योपरि ।
क्षिप्रं ब्रुहि बिलात्कतिमितैः साम्येन गत्योर्युतिः ॥१४७॥

भुजात्वर्गितात्कोटिकर्णांतराप्तं ।
द्विधा कोटिकर्णान्तरेणोनयुक्तम् ॥
तदर्धे क्रमात् कोटिकर्णौ भवेताम् ।
इदं धीमता वेत्य सर्वत्र योज्यम् ॥१४८॥

सखे पद्म-तमज्जनस्थानमध्यम् । भुअः कोटिकर्णांतरं पद्म दृश्यम् ॥
नलः कोटिरेतन्मितं स्यात् यतोम्भो । वदैव समानीय पानीयमानम् ॥१४९॥

चक्रकौंचाकुलितसलिले क्वापि दृष्टं तडागे ।
तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् ॥
मंदं मंदं चलितमनिलेनाऽऽहतं हस्तयुग्मे ।
तस्मिमग्नं गणक कथय क्षिप्रमंबुप्रमाणम् ॥१५०॥

द्विनिघ्नताकोच्छ्रिति संयुतं यत् । सरोऽन्तरं तेन विभाजितायाः ॥
तालोच्छ्रितेस्तालसरोन्तराघ्न्या । उड्डीयमानं खलु लभ्यते तत् ॥१५१॥

वृक्षाद्धस्तशतोच्छ्रयाच्छतयुगे वापीं कपिः कोऽप्यगात् ।
उत्तीर्यार्थ परो द्रुतं श्रुतिपथात्प्रोड्डीय किंचिद् द्रुमात् ॥
जातैव समता तयोर्यदि गतावुड्डियमानं कियत् ।
विद्वंच्शेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे ॥१५२॥

कर्णस्य वर्गाद्विगुणाद्विशोध्यः । दोः कोटियोगः स्वगुणोऽस्य मूलम् ॥
योगो द्विधा मूलविहीनयुक्तः । स्यातां तदर्थे भुजकोटिमाने ॥१५३॥

दश स्प्ताधिकाः कर्णस्यधिका विंश्तिः सखे ।
भुजकोटियुतिर्यत्र तत्र ते मे पृथक् वद ॥१५४॥

दोष्कोट्योरंतरं शैलाः कर्णो यत्र तर्योदश ।
भुजकोटी पृथक्तर वदाऽऽशु गणकोत्तम ॥१५५॥

अन्योन्यमूलाग्रगसूत्रयोगात् ।
वेण्योर्यथे योगहते च लंब ॥
वंशौ स्वयोगेन हृतौ अभीष्ट- ।
भूग्नौ च लंबोभयतः कुखंडे ॥१५६॥

पंचदह दस्करोच्छ्रायवेण्योरज्ञातमध्यभुमिकयोः ।
इतरेतरमूलाग्रसूत्रयुतेर्लंबमनमाचक्ष्य ॥१५७॥

धृष्टोद्दिष्टमृजुभुजं क्षेत्रं यत्रैकबाहुतः स्वल्पा ।
तदितर-भुजयुतिरथवा तुल्या ज्ञेयं तदक्षेत्रम् ॥१५८॥

चतुरस्त्रे द्विष्ट्त्र्यर्का भुजास्त्र्यस्रे त्रिषण्णव ।
उद्दिष्टा यत्र धृष्टेन तदक्षेत्रं विनिर्दिशेत् ॥१५९॥

त्रिभुजे भुजयोर्योग स्तंदतर्गुणो भुवा हृतो लब्ध्या ।
द्विःस्था भूरूनयुता दलिताऽऽबाधे तयोः स्याताम् ॥१६०॥

स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लंबः ।
लंबगुणं भूम्यर्थं स्पष्टं त्रिभुजे फलं भवति ॥१६१॥

क्षेत्रेअ महीमनुमिता त्रिभुजे भुजौ तु ।
यत्र त्रयोदशतिथिप्रमितो च मित्र ॥
तरावलंबकमितिं कथयावबाधे ।
क्षिप्रं तथा च सकोष्ठमिति फलाख्याम् ॥१६२॥

दशसप्तदशपमौ भुजौ । त्रिभुजे यत्र नवप्रमा मही ॥
अबधे लंबकं तथा । गणितं गणितिकाशु तर मे ॥१६३॥

सर्वदोयुतिदलं चतुःस्थितं । बाहुभिविरहितं च तद्वधात् ॥
मूलमस्फुटफलं चतुर्भुजे । स्पष्टमेवमुदितं त्रिबाहुके ॥१६४॥

भुमिश्चतुर्दशकरामुखमंकसंख्यम् ।
बाहुत्रयोदशदिवाकरसंमितौ च ॥
लंबोऽपि यत्र रविसंक्यक एव तर्त्र ।
क्षेत्रे फलं कथय तत्कथितंयदाद्यैः ॥१६५॥

चतुर्भुजास्यनियतौ हि कर्णौ । कथं ततोऽस्मिन्नियतं फलं स्यात् ॥
प्रसादितौ तच्छ्रवणौ यदाद्यैः । स्वकल्पितौ तावितरत्र न स्तः ॥१६६॥

तेष्वेव बाहुष्वपरौ च कर्णौ । अनेकधा क्षेत्रफलं ततश्च ॥१६७॥

लंबयोः कर्णयोर्वैकं अनिर्दिश्यापरः कथम् ।
पृच्छत्यनियत्वेऽपि नियतं चापि तत्फलम् ॥१६८॥

स पृच्छकः पिशाचो वा वक्ता वा नितरां ततः ।
यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियतां स्थितिम् ॥१६९॥

इष्टा श्रुतिस्तुल्यचतुर्भुजस्य । कल्प्याथ तद्वर्गविवर्जिता या ॥
चतुर्गुणा बाहुकृतिस्तदीयं । मूल द्वितीय-श्रवणप्रमाणम् ॥१७०॥


अतुल्यकर्णाभिहतिद्विभक्ता । फलं स्फुटं तुल्यचतुर्भुजे स्यात् ॥
समश्रुतौ तुल्यचतुर्भुजे च । तथाऽऽयते तद्भुजकोटिघातः ॥१७१॥


चतुर्भुजेऽन्यत्र समानलंबे । लंबेन निघ्नं कुमुखैक्यखंडम् ॥१७२॥

क्षेतर्स्य पंचकृतितुल्यचतुर्भुजस्य ।
कर्णौ ततश्च गणितं गणक प्रचक्ष्य ॥
तुल्यश्रुतेश्च खलु तस्य तथाऽऽयतस्य।
तद्विस्तृती रसभिताष्टमितं च दैर्घ्यम् ॥१७३॥

क्षेत्रस्य यस्य वदनं मदनारितुल्यम् ।
विश्वंभराद्विगुणितेन मुखेन तुल्या ॥
बाहु त्रयोदशनख-प्रमितौ च लंबः ।
सूर्योन्मितश्च गणितं वद तत्र किं स्यात्६ ॥१७४॥

पंचादशेकसहिता वदनं यदीयम् ।
भूः पंचसप्ततिमिता प्रमितोऽष्टषष्ट्या ॥
सव्यो भुजो द्विगुणविंशतिसंमितोऽन्यः ।
तस्मिन्फलं श्रवणलंबमिती प्रचक्ष्य ॥१७५॥

यल्लंबलंबाश्रितबाहुवर्गविश्लेषमूलं कथिताऽबधा सा ।
तदूनभूवर्गसमन्वितस्य यल्लंबवर्गस्य पदं स कर्णः ॥१७६॥

इष्टोऽत्र कर्णः प्रथमं प्रकल्प्यः । त्र्यस्त्रे तु कर्णोभयतः स्थिते ये ॥
कर्णं तयोः क्ष्माम्रितरौ च बाहू । प्रकल्प्य लंबावबधे प्रसाध्ये ॥१७७॥

आबाधयोरेकं ककुप्स्थयोर्यत् । स्यादन्तरं तत्कृतिसंयुतस्य ॥
लंबैक्यवर्गस्य पदं द्वितीयः । कर्णो भवेत्सर्वचतुर्भुजेषू ॥१७८॥

कर्णाश्रितस्वल्पभुजैक्यमुर्वी । प्रकल्प्य तेच्छेषभुजौ च बाहू ॥
साधोवलंबोऽथ तथान्यकर्णः । स्वोर्व्याः कथंचिच्छ्रवणो न दीर्घः ॥१७९॥

तदन्यलंबान्यलघुस्थथेदं । ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः ॥
त्र्यस्रे तु कर्णोभयतः स्थिते ये । तयोः फलैक्यं फलमत्र नूनम् ॥१८०॥

समानलंबस्य चतुर्भुजस्य । मुखोनभूमिं परिकल्प्य भूमिम् ॥
भुजौ भुजौ त्र्यस्रवदेव साध्ये । तस्याबधे लंबमितिस्ततश्च ॥१८१॥

आबाधयोना चतुरस्त्रभूमिः । तल्लंबवर्गैक्यपदं श्रुतिः स्यात् ॥
समानलंबे लघुदोः कुयोगात् । मुखान्यदोः संयुतिरल्पिका स्यात् ॥१८२॥

द्विपंचाशन्मितव्येकचत्वारिंशन्मितौ भुजौ ।
मुखं तु पंचविंशत्या तुल्यं षष्ट्या मही किल ॥१८३॥

अतुल्यलंबकक्षेत्रमिदं पूर्वैरुदाहृतम् ।
षट्पंचाशत्रिषष्टिश्चनियते कर्णयोर्मितौ ॥
कर्णौ तत्रापरौ ब्रूहि समलंबे च तच्छ्रुती ॥१८४॥

कर्णाश्रितभुजघातैक्यमुभयथाऽन्योन्यभाजितं गुणयेत् ।
योगेन भुजप्रतिभुजवधयोः कर्णौ पदे विषमे ॥१८५॥

अभीष्टजात्यद्वयबाहुकोट्यः । परस्परं कर्णहता भुजा इति ॥
चतुर्भुजं यद्विषमं प्रकल्पितं । श्रुती तु तत्र त्रिभुजद्वयात्ततः ॥१८५ अ॥

बाह्वोर्वधः कोटिवधेन युक्स्यात् । एका श्रुतिः कोटिभुजावधैक्यम् ॥
अन्या लघौ सत्यपि साधनेऽस्मिन् । पूर्वैः कृतं यद्गुरू तन्न विद्मः ॥१८६॥

क्षेत्रे यत क्षतत्रयं क्षितिमितिस्तत्त्वेंदुतुल्यं मुखम् ।
बाहू खोत्कृतिभिः शरातिढूतिभिस्तुल्यो च तत्र श्रुती ॥
एका खाष्टयमैः समा तिथिगुणैरन्याथ तल्लंबकौ ।
तुल्यो गोधृतिभिस्तथाजिनयमैः योगाच्छ्रवोर्लंबयोः ॥१८६॥

तत्खंडे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे ।
तत्सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्तथा ॥
साबाधं वद लंबकं च भुजयोः सूच्याः प्रमाणे च के ।
सर्वं गाणितिक प्रचक्ष्य नितरां क्षेत्रेऽत्र दक्षोऽसि चेत् ॥१८७॥

लंब तदाश्रितबाह्वोर्मध्यं संध्याख्यमस्य लंबस्त ।
संध्यूना भूः पीठं साध्यं यस्याधरं खंडम् ॥१८८॥

तत्संधिद्विष्ठः परलंब श्रवणाहतोऽन्यपीठेन ।
भक्तो लंब श्रुत्योर्योगात्स्यातामधः खंडे ॥१८९॥

लंबौ भूघ्नौ निजनिजपीठविभक्तौ च वशौ स्तः ।
ताभ्यां प्राग्यत् श्रुत्योर्योल्लंबः कुखंडे च ॥१९०॥

लंबहृतौ निजसंधिः परलंबगुणः समाह्वयो ज्ञेयः ।
समपरसंन्ध्योरैक्यं हारस्तेनद्धृतौ तौ च ॥१९१॥

समपरसन्धी भूघ्नौ सूच्याबाधे पृथक् स्याताम् ।
हारहृतः परलंबः सूचीलंबो भवेद्भूघ्नः ॥१९२॥

सूचीलंबघ्नभुजौ निजनिजलंबोद्धृतौ भुजौ सूच्याः ।
एवं क्षेत्रक्षोदः प्राज्ञैस्त्रैराशिकात् क्रियते ॥१९३॥

व्यासे भनंदाग्नि हते विभक्ते ।
खबाणसूर्येः परिधिस्तु सूक्ष्मः ॥
द्वाविंश्तिघ्ने विहतेऽथ शैलैः ।
स्थूलोऽथवा स्याद्व्यवहारयोग्यः ॥१९४॥

विष्कभमानं किल सप्त यत्र ।
तत्र प्रमाणं परिधेः प्रचक्ष्व ॥
द्वाविंशतिर्यत्परिप्रमाणम् ।
तद्व्याससंख्या च सखे विचिन्त्य ॥१९५॥

वृत्तक्षेत्रे परिधिगुणितव्यासपदः फलं यत् ।
क्षुण्णं वदैरुपरि परितः कन्दुकस्येव जालम् ॥
गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नम् ।
षड्भिर्भक्तं भवति नियतं गोलगर्भे  घनाख्यम् ॥१९६॥

यद्व्यास्स्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किम् ।
व्यासः सप्तमितश्च यस्य सुमतेगोलस्य तस्याऽपि किम् ॥
पृष्ठे कंदुकजालसंनिभफलं तस्यैव गोलस्य किम् ।
मध्ये ब्रूहि घनं फलं च विमलां चेद्वेत्सि लीलावतीम् ॥१९६॥

व्यासस्य वर्गे भनवाग्निनिघ्ने । सूक्ष्मं फलं पंचसहस्रभक्ते ॥
रूद्राहते शक्रहृतेऽथवास्यात् । स्थूलं फलम संव्यवहारयोग्यम् ॥ १९७॥

घनीकृतव्यासदलं निजैकविंशांशयुग्गोलफलं घनं स्यात् । १९८ ।
ज्याव्यासयोगांतरघातमूलं । व्यासस्तदूनो दलितः शरः स्यातऽऽ ॥
व्यासाच्छरोनात् शरसंगुणाच्च । मूलं द्विनिघ्नं भवतीह जीवा ॥ १९९॥

जीवार्धवर्गे शरभक्तयुक्ते । व्यासप्रमानं प्रवदंति वृत्ते ॥ २०० ॥

दशविस्तृतिवृत्तांतर्यत्र ज्या षण्मिता सखे ।
तत्रेषुं वद बाणाज्ज्यां ज्याबाणाभ्यां च विस्तृतिम् ॥२०१।।

त्रिद्व्यंकाग्निनभश्चन्द्रैस्त्रिबाणाष्टयुगाष्टभिः ।
वेदाग्निबाणखाश्वैश्च खखाभ्राभ्ररसैः क्रमात् ॥२०२॥

बाणेषुनखबाणेश्च द्विद्विनंदेषुसागरैः ।
कुरामदशवेदैश्च वृत्ते व्याससमाहते ॥२०३।।

खखखाभ्रार्कसंभक्ते लभ्यन्ते क्रमशो भुजाः ।
वृत्तान्तत्र्यस्त्रपूर्वाणाम् नवास्त्रान्तं पृथक् पृथक् ॥२०४॥

चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात् ।
पंचाहतः परिधिवर्गचतुर्थभागः ॥
आद्योनितेन खलु तेन भजेच्चतुर्घ्न - ।
व्यासाहतं प्रथमप्राप्तमिह ज्यका स्यात् ॥ २०५॥

अष्टादशांशएन समानवृत्तम् । एकादिनिघ्नेन च यत्र चापम् ॥
पृथक् पृथक् तत्र वदाशु जीवाम् । खाकैर्मितं व्यासदलं च यत्र ॥२०६॥

व्यासाब्धिघातयुतमौर्विकयाविभक्तो ।
जीवांघ्रिपंचगुणितः परिघेस्तु वर्गः ॥
लब्धोनितात् परिघिवर्गवतुर्थ भागात् ।
आप्ते पदे वृतिदलात्पतिते धनुः स्यात् ॥२०७॥

विदिताइह ये गुणास्ततो । वद तेषामधुना धनुर्मितिम् ॥
यदि तेऽस्ति धनुर्गुणक्रिया - । -गणिते गाणितिकातिनैपुणम् ॥२०८॥

Hits: 457
X

Right Click

No right click