प्रमाणकालेन हतं प्रमाणं । विमिश्रकालेन हतं फलं च ॥
स्वयोगभक्ते च पृथक्स्थिते च । मिश्राहते मूल कलान्तरे स्तः ॥९०॥

पंचकेन शतेनाब्दे मूलं स्वं सकलान्तरम् ।
सहस्त्रं चेत्पृथक् तत्र वद मूल कलान्तरे ॥९१॥

अथ प्रमाणैर्गुणिताः स्वकाला । व्यतीतकालघ्न-फलोद्धृतास्ते ॥
स्वयोगभक्ताश्च विमिश्रनिघ्नाः । प्रयुक्तखण्डानि पृथक् भवन्ति ॥९२अ॥

यत्पंचकत्रिकचतुष्कशतेन दत्तं ।
खण्डैस्त्रिभिर्गणक निष्कशतं षडूनम् ॥
मसेषु सप्तदशपंचसु तुल्यमात्रम् ।
खण्डत्रयेऽपि हि फलं वद खण्डसंख्याम् ॥९२॥

प्रक्षेपका मिश्रहता विभक्ता । प्रक्षेपयोगेन पृथक् फलानि ॥९३॥

पंचाशदेक-सहिता गणकाष्टषष्टिः ।
पंचोनिता नवतिरादिधनानि येषाम् ॥
प्राप्ता विमिश्रितधनैस्त्रिशतौ त्रिभिस्तैः ।
वाणिज्यतो वद विभज्य धनानि तेषाम् ॥९४॥

भजेच्छिदोंशैरथ्तैर्विमिश्रै ।
रूपं भजेत् स्यत् परिपूर्तिकालः ॥९५ अ॥

ये निर्झरा दिनदिनार्धतृतीयषष्ठैः ।
संपूर्णयन्ति हि पृथग्पृथगेव मुक्ताः ॥
वापीं यदा युगपदेव सखे विमुक्ताः ।
ते केन वासरलवेन तदा वदाऽशु ॥९५॥

पण्यैः स्वमूल्यानि भजेत्स्वभागैः ।
हत्वा तदैक्येन भाजेच्च तानि ॥
भागांश्च मिश्रेण धनेन हत्वा ।
मूल्यानि पण्यानि यथाक्रमं स्युः ॥९६॥

सार्धं तण्डूलमानकत्रयमहो द्रम्मेण मानाष्टकम् ।
मुद्गानां च यदि त्रयोदशमिता एता वणिक्काकिणीः ॥
आदायाऽऽर्पय तण्डूलांशयुगुलं मुद्गैकभागान्वितम् ।
क्षिप्रं क्षिप्रभुजो व्रजेमहि यतः सार्थोऽग्रतो यास्यति ॥९७॥

कर्पूरस्य वरस्य निष्कयुगलेनैकं पलं प्राप्यते ।
वैश्यानन्दनचन्दनस्य च पलं द्रम्माष्टभागेन चेत् ॥
अष्टांशेन तहाऽगरोः पलदलं निष्केण मे देहि तान् ।
भागैरेककषोडशाष्टकमितैर्धूपं चिकीर्षाम्यहम् ॥९८॥

नरघ्नदानोनितरत्नशेषैरिष्टे हृते स्युः खलु मूल्यसंख्याः ।
शेषैर्हृतेशेषवधे पृथक्स्थैरभिन्नमूल्यान्यथवा भवन्ति ॥९९॥

माणिक्याष्टकमिन्द्रनीलदशकं मुक्ताफ्लानां शतम् ।
सद्व्रजाणि च पंच रत्नवणिजामेषा चतुर्णां धनम् ॥
संगस्नेहवशेन ते निजधनाद्दत्वैकमेकं मिथो ।
जातस्तुल्यधनाः पृथग्वद सखे तद्रत्नमूल्यानि मे ॥१००॥

सुवर्णवर्णाहतियोगराशौ । स्वर्णैक्यभक्ते कनकैक्यवर्णः ॥
वर्णोभवेच्छोधितहेमभक्ते । वर्णोद्धृते शोधित हेमसंख्या ॥१०१॥

विश्वार्करुद्रदशवर्णसुवर्णमाषाः । दिग्वेदलोचनयुग प्रमिताः क्रमेण ॥
आवर्तितेषु वद तेषु सुवर्णवर्णः । तूर्णं सुवर्णगणितज्ञ वणिग्भवेत्कः ॥१०२॥

स्वर्णैक्यनिघ्नाद्युतिजातवर्णात् । सुवर्णतद्वर्ण वधैक्यहीनात् ॥
अज्ञातवर्णाग्निजसंख्ययाप्तम् । अज्ञातवर्णस्य भवेत्प्रमाणम् ॥१०३॥

दशेशवर्णा वसुनेत्रमाषा । अज्ञातवर्णस्य षडेतदैक्ये ॥
जातं सखे द्वादशकं सुवर्णम् । अज्ञातवर्णस्य वद प्रमाणम् ॥१०४॥

दशेंद्रवर्णां गुणचन्द्रमाषाः । किंचित्तथ षोडशकस्य तेषाम् ॥
जातं युतौ द्वादशकं सुवर्णम् । कतीह ते षोडशवर्णमाषाः ॥१०५॥

साध्येनोनोऽनल्पवर्णो विधेयः । साध्यो वर्णः स्वल्पवर्गोनितश्च ॥
इष्टक्षुण्णे शेषके स्वर्णमाने । स्यातां स्वल्पानल्पयोर्वर्णयोस्ते ॥१०६॥

ह्हाटकगुटिके षोडशदशवर्णेतद्युतौ सखे जातम् ।
द्वादशवर्णसुवर्णं ब्रूहि तयोः स्वर्णमाने मे ॥१०७ अ॥

एकाद्येकोत्तरा अंका व्यस्ता भाज्याः क्रमस्थितैः ।
परः पूर्वेण संगुण्यस्तत्परस्तेन ते च ॥१०७ ब॥

एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम् ।
छदश्चित्त्युत्तरे छन्दस्युपयोगोऽस्य  तद्विदाम् ॥१०८॥

मूषावहन भेदादौ खण्डमेरौ च शिल्पके ।
वैद्यके रसभेदिये तन्नोक्तं विस्तृतेर्भयात् ॥१०९॥
प्रस्तारे मित्र गयत्र्याः स्युः पादे व्यक्तयः कति ।
एकादिगुरवश्चाशु कथ्यतां तत्पृथक् पृथक् ॥११०॥

एकद्वित्र्यादिमूषा वहनमितिमहो ब्रूहि मे भूमिभर्तुः ।
हर्म्य्र रम्येऽष्टमूषे चतुरविरचितेश्ल्क्ष्णशालाविशाले ॥
एकद्वित्र्यादियुक्त्या मधुरकटुकषायाम्लकक्षारतिक्तैः ।
एकस्मिन्षड्रसैः स्युर्गणक कति वद व्यंजने व्यक्तिभेदाः ॥१११॥
Hits: 478
X

Right Click

No right click