पंचराशिकादि प्रकरणम्

पछसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदाम् ।
संविधाय बहुराशिजे वधे स्वल्पराशिवधभाजितेफलम् ॥८२॥

मासे शतस्य यदि पंचकलान्तरं स्यात् ।
वर्षे गते भवति किं वद षोडशानाम् ॥
कालं तथा कथय मूलकलान्तराभ्याम् ।
मूलं धनं गणक कालफले विदित्वा ॥८३॥

सत्र्यंशमासेन शतस्य चेत्स्यात्कलान्तरं पंचसपंचमांशाः ।
मासत्रिभिः पंचलवाधिकेस्तत्सार्धद्विषष्टेः फलमुच्यतां किम् ॥८४॥

विस्तारे त्रिकराः कराष्टकमिता दैर्घ्ये विचित्राश्च चेत् ।
रूपैरुत्कटपत्तसूत्रपटिका अष्टी लभन्ते शतम् ॥
दैर्घ्ये सार्धंकरत्रयापरपटी हस्तार्धविस्तारिणी ।
तादृक्किंलभते द्रुतं वद वणिग्वाणिज्यकं वेत्सि चेत् ॥८५॥

पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गाङ्गुला विस्तृतौ ।
पट्टा दीर्घतया चतुर्दशकरस्त्रिंशल्लभन्ते शतम् ॥
एता विस्तृतिपिण्डदैर्घ्यमितयो येषां चतुर्वर्जिताः ।
पट्टास्ते वद मे चतुर्दश सखे मूल्यं लभन्ते कियत् ॥८६॥

पट्टा ये प्रथमोदितप्रमितयो गव्यूतिमात्रे स्थ्ताः ।
तेषामानयनाय चेच्छकटिनां द्रम्माष्टकं भाटकम् ॥
अन्ये ते तदनन्तरं निगदिता माने चतुर्वर्जिताः ।
तेषां किं भवतीति भाटकमितिर्गव्यूतिषट्के वद ॥८७॥

Hits: 377
X

Right Click

No right click