व्यस्त त्रैराशिक सूत्र

इच्छावृद्धौ फले र्‍हासो र्‍हासे वृद्धिश्च जायते ।

व्यस्तं त्रैराशिकं तर ज्ञेयं गणितकोविदैः ॥७९॥

जीवानां वयसो मौल्ये तौल्ये वर्णस्य हेमनि ।

भागहारेश्च राशीनाम्‌ व्यस्तं त्रैराशिकं विदुः ॥८०॥

प्राप्नोति चेत्‌ षोडशवत्सरा स्त्रीः । द्वात्रिंशकं विंशतिवत्सरा किम्‌ ॥

द्विधूर्वहो निष्कचतुष्कमुक्षा । प्राप्नोति धूःषटकवहस्तदा किम्‌ ॥८१॥

दशवर्णं सुवर्णं चेद्गद्याणकमवाप्यते ।

निष्केण तिथिवर्णं तु तदा वद कियन्मितम्‌ ॥८२ अ॥

सप्ताढकेन मानेन राशी सस्यस्य मापिते ।

यदि मानशतं जातं तदा पंचाढकेन किम्‌ ॥८३ अ॥

Hits: 432
X

Right Click

No right click