त्रैराशिक
 
प्रमाणमिच्छाच समानजातिः ।
आद्यंतयोस्तत् फलमन्यजातिः ॥
मध्ये तदिच्छाहतमांद्यहृत्स्यात् ।
इच्छाफलं व्यस्तविधिर्विलोमे ॥७४॥

इच्छावृद्धौ फले वृद्धिर् र्हासे र्हासश्च जायते ।
समत्रैराशिकं तत्र ज्ञेयं गणितकोविदैः ॥७५॥

कुंकुमस्य सदलं पलद्वयं । निष्कसप्तमलवैत्रिभिर्यदि ॥
प्राप्यते सपदि मे वणिग्वर । ब्रूहि निष्कनवकेन तत्कियत् ॥७६॥

प्रकृष्टकर्पूरपलत्रिषष्ट्या । चेल्लभ्यते निष्कचतुष्कयुक्तम् ॥
शतं तदा द्वादशभिः सपादैः । पलैः किमाचक्ष सखे विचिन्त्य ॥७७॥

द्रम्म्द्वयेन साष्टांशा शालितण्डूलखारिका ।
लभ्या चेत पणसप्तत्या तत्किं सपदि कथ्यताम् ॥७८॥

Hits: 464
X

Right Click

No right click