गुणकर्म

गुणघ्नमूलोनयुतस्य राशेर्दृष्टस्य युक्तस्य गुणार्धकृत्या ।
मूलं गुणार्धेन युतं विहीनं वर्गीकृतं प्रष्टुरभीष्टराशिः ॥६६॥

यदा लवैश्चोनयुतः स राशिरेकेन भागोनयुतेन भक्त्वा ।
दृश्यं तथा मूलगुणं च ताभ्यां साध्यस्ततः प्रोक्तवदेव राशिः ॥६७॥

बाले मरालकूलमूलदलानि सप्त ।
तीरे विलासभरममन्थरगान्यपश्यम् ॥
कुर्वच्च केलिकलहं कलहंसयुग्मम् ।
शेषं जले वद मरालकुलप्रमाणम् ॥६८॥

स्वपदैर्नवभियुक्तं स्याच्चत्वारिंशताधिकम् ।
शतद्वादशकं विद्वन् कः स राशिर्निगद्यताम् ॥६९॥

यातं हंसकुलस्य मूलदशकं मेघागमे मानसम् ।
प्रोड्डीय स्थलपद्मिनीवनमगादष्टांशकोंऽभस्तटात् ॥
बाले बालमृणालशालिनि जले केलिक्रियालालसम् ।
दृष्टं हंसयुगत्रयं च सकलां यूथस्य संख्यां वद ॥७०॥

पार्थः कर्णवधाय मार्गणगणं क्रुद्धो रणे संबधे ।
तस्यार्धेन निवार्य तच्छरगणं मूलैश्चतुर्भिहयान् ॥
शल्यं षड्भिरथेषुभिस्त्रिभिरपि च्छत्रं ध्वजं कार्मुकम् ।
चिच्छेदास्य शिरः शरेण कति ते यानर्जुनः संदधे ॥७१॥

अलिकुलदलमूलं मालती यातमष्टौ ।
निखिलनवमभागाश्चालिनी भृंगमेकम् ॥
निशि परिमललुब्धं पद्ममध्ये निरुद्धम् ।
प्रतिरणति रणन्तं ब्रूहि कांतेलिसंख्याम् ॥७२॥

यो राशिरष्टादशभिः स्वमूलैः ।
राशित्रिभागेन समन्वितश्च॥
जातं शतंद्वादशकं तमाशु ।
जानीहि पाट्यां पटुताऽस्ति ते चेत् ॥७३॥

Hits: 516
X

Right Click

No right click